________________
सूक्तिरत्नकाषः 211 किं चित्रं यदि तन्वतयाः स्तनाभ्यां निर्जितं जगत् ।
एको जयति सद्धृतः किं पुनो सुसंहतो ॥३१ 212 कण्ठस्य विदधे कान्ति मुक्ताभरणता यथा ।
तस्याः स्वभाव म्यस्य मुक्ताभरणता य(त)था । ३२ 213 अतः परमगम्योऽयं पन्था विश्रम्यतामिति ।
प्रत्यक्षियुगलं तस्याः कणों वक्तुमिव स्थितौ ॥३३ 214 न युक्तं स्वच्छमध्यानां बहुश्रुतविलङ्घनम् ॥
इत्यवेत्य स्थितौ तन्व्याः कर्णावाश्रित्य लोचनी ।।३४ 215 समस्तस्यापि रत्नस्य व्रणेऽर्घः परिहीयते ।
दयिताधररत्नं तु व्रणितं यात्यनर्धताम् ।।३५ 216 द्विजसङ्गतिमासाद्य सर्वो रागाद्विमुच्यते ।
रक्तस्तथापि तन्वङ्गया बिम्बोष्ठः केन हेतुना ॥३६ 217 मन्ये नेत्रपथं तस्यां गतायां लोलचक्षुषि ।
बभूवुः पञ्चबाणस्य स्वबाणा एव वैरणः ॥३७ अथ विरहिणी। 218 यामीति प्रियपृष्टायाः प्रियायाः कण्ठवर्तिनोः ।
वचोजीवितयोर्जातः पुरोनिःसरणे रणे(णः) ॥१ 210 शय्या प्रकल्पितैकत्र चितैकत्र प्रकल्पिता ।
अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति ॥२ 220 गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥३
[ काव्यादर्श,२,१४१ 221 हस्तम कृष्य यातोऽप्ति बलादिति किमद्भुतम् ।
हृदयाद्यदि निर्याति पौरुषं गणयामि ते ।।४।। 222 अदर्शने (अदृष्टे) दर्शनोत्कण्ठा दृष्टे विच्छेद पीरुता ।
नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥५ 223 अयि लच्चितमयोद स्मर स्मर हरानलम् ।
दग्ध दग्धुमयुक्तं ते जनं विरहविह्वलम् ॥६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org