SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 224 भाश्वासयत काकोऽपि दुःखितां पथिकाङ्गनाम् । त्वं च द्रामृत जन्मापि दहसीति किमुच्यताम् ॥७ 225 रागान्नितान्तरक्तेन लोचनानन्दकारिणम् । उवाह मनसा कान्तं पाणिना मुखपङ्कजम् ।।८ 226 दीनायां दोनवदनो रुदत्यां साश्रुलोचनः ।। पुरः सखोजनस्तस्याः प्रतिबिम्बमिवाबभौ ॥९ 227 दह्यमानेऽपि हृदये मृगाक्ष्या मन्मथाग्निना । स्नेहस्तथैव यत्तस्थौ तदाश्चर्यमिवाभवत् । १० 228 तस्याः स्तनान्तरे न्यस्तं चन्दनं तापशोषितम् । मनोभवाग्निदग्घस्य बभी भस्मेव चेतसः ॥११ 229 तापोपघातदक्षाणि मृणालानि नतभ्रवः । नाभुवन् दीर्घसूत्रेभ्यः काशितं प्राप्यते कुतः ॥१२ 230 मा गाः पान्थ प्रियां मुक्त्वा दूराकृष्टशिलीमुखम् । स्थितं पन्थानमावृत्य किंकिरातं न पश्यसि ॥१३ अथ विरही* 231 हारो नारोपितः कण्ठे' कष्टसंश्लेषभीरुणा । . इदानोमन्तरे जाताः पर्वताः सरितो द्रुमाः ॥१ 232 सा दृष्टा यैर्न वा दृष्टा मुषिताः सममेव ते ।। हृतं हृदयमेकेषामन्येषां चक्षुषः फलम् ॥२ 233 यदि स्मरामि तां तन्वीं जीविताशा कुतो मम । मथ विस्मृत्य जीवामि जीवितव्यसनेन किम् ॥३ 234. प्राणानां च प्रियायाः(याश्च) मूढाः सादृश्यकारिणः । .. प्रिया कण्ठगता रत्यै प्राणा मरणहेतवे ॥४ 235 प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥५ 230 श्लोकोऽयं नोपलभ्यते ख प्रतौ । *'अथ विग्ही' इति पद्धतिनिर्देशो नोपलभ्यते ख प्रतौ । समग्रा चेयं पद्धतिः (६४ श्लोकप्रमाणा) प प्रतौ ४६३ श्लोकानन्तरं प्रकीर्णकपद्धतेरनन्तरं उपलभ्यते । १ ''ठ' इत्यन्तर्गत 'ठ' वर्णादारभ्य २७९ तम लोकचतुर्थचरणगत 'विषादप्यतिरिच्यते' ग्रन्थसंदर्भः नोपलब्धः प प्रतौ पत्रपञ्चकत्रुटे: (पत्र४२तः ४६) For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy