________________
सूक्तिरत्नकोषः 236 दिव्यचक्षुरहं जातः सरागेणापि चेत पा ।
दूरस्थो येन पश्यामि देशान्तरगतां प्रियाम् ॥६।। 237 एकतो दिवसान्कान्ता गणयत्यन्यतो यमः ।
न विद्मः प्रथमं कस्य यास्यामो वयमन्तिकम् ।।७।। 238 अग्रतो बाहुपाशेन केशपाशेन पृष्ठतः ।
पार्श्वतः केशपाशेन(?) सर्वतो बन्धनं हि सा ॥८॥ 239 मध्येनैकेन तन्वङ्गयाः क्षामेण क्षपिता वरम् ।
उन्नतं स्तनयुग्मं तु न विभः किं करिष्यति ॥९॥ 240 मध्यदेशात्पुनः काञ्चीदेशं गच्छद्भिराकुलैः ।
तन्व्या वपुषि लोकस्य लोचनैः पथिकायितम् ॥१०॥ 241 अनया जघनाभोगभरमन्थरया तया ।
अन्यतोऽपि वजन्त्या मे हृदये लिहितं पदम् । ११ । 242 मम कामशराघातैर्बणिते हृदये स्थिता ।
कथं सळवणा तन्वी संतापं न करिष्यति । १२॥ 243 लवणं क्षिप्यते यत्र तत्पात्रं क्षीयते किल ।
लावण्यं तव तन्वङ्गि कथं क्षीयामहे वयम् ॥१३॥ 244 सा यौवनमदोन्मत्ता वयमस्वस्थचेतसः ।
तस्या लावण्यमङ्गेषु दाहोऽस्मासु विज़म्भते ॥१४।। 245 क्षिपतोऽप्यन्यतश्चित्तं सैव सारङ्गलोचना ।
शङ्केव कृतपापस्य हृदयान्नापसर्पति ॥१५॥ 246 एकमुत्कण्ठया व्याप्तमन्यदयितया हृतम् ।
चेतनामपरं धत्ते कियन्(न्ति) हृदयानि मे ॥१६॥ 247 हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता । संभावितैकदेशेन देयं यदभियुज्यते ॥१७॥
विक्रमोर्वशीयम्, ४, १७] 248 प्रियानेत्रमुखच्छायाहृतलावण्यशोभयोः ।
समानदुःखयोरैक्यं युक्तं तन्मृगचन्द्रयोः ॥१८॥ 249 वाहि वात यतः कान्तां तां स्पृष्ट्वा मामपि स्पृश ।
बह्येतत्कामयानस्य शक्यमेतेन जीवितुम् ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org