SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २२ लक्ष्मणकृतः 250 यदहं सा च वामोरेका धरणिमाश्रितो । बहवेतत्कामयानस्य नैतदैन्यं विजानतः ॥२०॥ 251 न मे दुःखं प्रिया दूरे न मे दुःख हृतेति सा । एतदेवानुशोचामि वयस्तस्यातिवर्तते ॥२१॥ 252 कदा न्वहं सुदन्तोष्ठं मुखं पद्मदलेक्षणम् । ईषदुन्नन्नाम्य पास्यामि रसायनमिवोत्तमम् ॥२२॥ 253 प्रियामुखमनुस्मृत्य दीर्घचारुविलोचनम् न याति शतधा येन मनस्तेन नपुंसकम् ॥२३॥ 254 प्रियाविरहितस्याच हृदि चिन्ता ममागता । इति मत्वा गता निद्रा के कृतघ्नमुपासते ॥२४॥ 255 क्षणभङ्गि जगत्सर्वमिति तथ्यं मुनेर्ववः । कोऽन्यथा हरिणाक्षीणां सहेत विरहव्यथाम् ॥२५॥ 256 स्फुटमाचक्षते शाब्दाः शब्दानामिह नित्यताम् । प्रिययोक्ता यदद्यापि हृदि तिष्ठन्ति मे गिरः ॥२६॥ 257 पदे वाक्ये प्रमाणे च परां निष्ठामुपागता । अतो विद्वज्जनस्यास्य स्पृहण या मृगेक्षणा ॥२७॥ 258 मनः प्रकृत्यैव चलं दुर्लक्षं च तथापि मे । अनङ्गेन कथं विद्धं समं सर्वशिलीमुखैः ॥२८ नावलि, ३, २] 259 अन्तर्मलीमसे वक्रे चले कर्णान्तसपिणि । तस्या नेत्रयुगे दृष्टे दुर्जने च कुतः सुखम् ॥२९ 260 रूपातिशयकर्तृणां प्रतिच्छन्दो ह्यकारणम् । विलोलनयनां धात्रा सृजता कि निरीक्षितम् ॥३० 261 माधुर्य मृगशावाक्ष्या यदि धात्रा विनिर्मितम् । .. लदत्यन्तविरुद्धेन लावण्येन किमाश्रितम् ॥३१ 262 गतानि हन्त हसीनां हरन्तो हरिणेक्षणा । करोति मामगतिकमहो स्लोवृत्तमद्भुतम् ॥३२ 263 अपूर्वः कोऽपि तन्वनया मम मार्गः प्रदर्शितः । योगं चिन्तयतो येन राग एवं विवर्धते ॥३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy