Book Title: Suktiratnakosa
Author(s): Lakshman, Nilanjana Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 57
________________ ४० लक्ष्मणकृतः 476 अधरो वीतरागस्ते कषाये ते विलोचने । विहारः कण्ठदेशस्ते दूति प्रव्रजितासि किम् ॥२ 477 अनेन वीतरागेण बुद्धेनेवाधरेण ते । दूति निर्व्याजमाख्याता सर्ववस्तुषु शून्यता ॥३ 478 किं त्वं निगृहसे दूति स्तनौ वक्त्रं च पाणिना । खण्डिता एव शोमन्ते शूराधरपयोघराः ॥४ 479 दूति किं तेन पापेन शास्त्रातिकमकारिणा । पञ्चपञ्चनखा भक्ष्याः षष्ठी त्वं येन भक्षिता ॥५ 480 पार्श्वभ्यां सुप्रहाराभ्यां अधरे व्रण स्वण्डिते । दूति संग्रामयोग्यासि न योग्या दूतकर्मणि ॥६ 481 नवदन्तक्षते क्षामे क्षन्तव्यं दूति मे त्वया । अक्षौहिण्यो दशाष्टौ च मित्रार्थे निधनं गताः ॥७ 482 त्वया कर्म कृतं यत्तदन्येन(न्येनाति)दुष्करम्()। शरणागतविध्वंसी छिद्रान्वेषी विदारितः ॥८॥ 483 क्षामा तनुः गतिः खिन्ना नेत्रे व्यालोलतारके । वागस्पष्टा श्लथं वासो दूति त्वं ज्वरिताऽसि किम् ॥९ 484 बहुनाऽत्र किमुक्तेन दूति मत्कार्यसिद्धये । स्वमांसान्यपि दत्तानि वस्तुष्वन्येषु का कथा ॥१० अथ हास्यम् । 485 सा पार्वतीत्यवितथं स च स्थाणुरिति स्फुटम् । संपृक्तावपि यावास्तां सुरताभोगनिस्पृहौ ॥१ 486 स्थाणुर्वा स्यादजो वा स्यात्पशूनां स्यात्पति स वा । कामिनीविभ्रमाचार्य योऽधाक्षीत् कुसुमायुधम् ॥२ 487 सुभ्रुवोविभ्रमैः किञ्चित् यत् प्रकुर्वीत कामिनाम् । जघनेष्वेव तत्सर्व पतत्यनपराधिषु ॥३ *ख. अथ सख्युपहासः । 475. प. यातः सामदाना। 476 ख. प्रवजिनः कथम। 477 बटेन वाधरेण । 484 .अतोऽनन्तरं प प्रनो 'अथ विरहिणीप्रलापाः -यत्पराधीनयोः प्रेम देवादस्पद्यते कचित् । तत्रानुसज्य लज्जा जीवितं वा कुतः सुखम् ।' इत्यधिकः पाठ उपलभ्यते । अस्यां पद्धतौ एक एव लोकः वर्तते । श्लोकोऽयं ख प्रतिमनुसृत्य २८७ तम लोकरूपेण स्वीकृतः तेनात्रानाहतो मूलपाठे। 487 प० यत् प्रकुर्वन्ति कामिनाम्' । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90