Book Title: Suktiratnakosa
Author(s): Lakshman, Nilanjana Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 56
________________ सूक्तिरत्नकोषः ३९ अथ पुत्रः। 464 न पुत्रः पितरं द्वेष्टि स्वभावात् स्वस्य रेतसः । यः पुत्रः पितरं द्वेष्टि तं विद्यादन्यरेतसम् ॥१ 465 पुत्र पुत्रेषु जातेषु यदा किञ्चित् स्मरिष्यसि । म(त्वम)स्मत्कृतस्नेहानां तदा वेत्ता भविष्यसि ॥२ 466 जायमानो हरेद्भार्या वर्धमानो हरेद्धनम् । म्रियमाणो हरेत्प्राणान् नास्ति पुत्रसमो रिपुः ॥३ 467 उत्तमाः स्वगुणैः ख्याता मध्यमा पितृमातृभिः । अधमा मातुलैः ख्याताः श्वसुरैश्चाधमाधमाः ॥४ 468 वत्स यन्न त्वयाऽधीतं मृगनेत्रासु रात्रिषु । येन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि ॥५ 469 जीवतोर्वाक्यकरणात् क्षपाहे भूरिभोजनात् । छायायां पिण्डपात्राच्च त्रिभिरेव सुतः सुतः ॥६ 470 न खानिता पुष्करिण्यो रापिता न महीरुहः । मातुर्यावनचोरेण तेन जातेन किं कृतम् ॥७ 471 अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् । ती स्तोकशोकदौ पित्रोमूर्खस्तु बहुशोकदः ॥८ 472 पुत्रोत्पत्तिविपत्तिभ्यां न परं सुखदुःखयोः । ब्रह्महत्याश्वमेधाभ्यां न परं पापपुण्ययोः ॥९ 473 तथा भव यथा तात त्रैलोक्योदरदर्पणे । विशेषैर्भूषितस्तैस्तैर्नित्यमात्मानमीक्ष्यसे ॥१० नलचम्पू ४, १७] 474 किं तेन जातु जातेन मातुर्योवनहारिणा । आरोहति न यस्तस्य वंशस्यायें ध्वजो यथा ॥११ __ निलचम्पू , ४,१९] त्रिविक्रमस्यैते । *अथ सख्युपहासाः । 475 नायातः सामदानाभ्यामिति भेदेऽपि दर्शिते । साधु यदुर्विनीतस्य मया दण्डो निपातितः ॥१ 464 ख० यत्त्वया पुत्र नाधीतं । ख. सीदति । 469 ख. प्रतौ न विद्यते । 470 ख. प्रतौ न विद्यते । 471 प. 'चित्रो मूर्खस्तु' । 472 च. 'पुण्यपापयोः' 473 प. 'मात्मानमीक्षते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90