________________
सूक्तिरत्नकोषः
३९
अथ पुत्रः। 464 न पुत्रः पितरं द्वेष्टि स्वभावात् स्वस्य रेतसः ।
यः पुत्रः पितरं द्वेष्टि तं विद्यादन्यरेतसम् ॥१ 465 पुत्र पुत्रेषु जातेषु यदा किञ्चित् स्मरिष्यसि ।
म(त्वम)स्मत्कृतस्नेहानां तदा वेत्ता भविष्यसि ॥२ 466 जायमानो हरेद्भार्या वर्धमानो हरेद्धनम् ।
म्रियमाणो हरेत्प्राणान् नास्ति पुत्रसमो रिपुः ॥३ 467 उत्तमाः स्वगुणैः ख्याता मध्यमा पितृमातृभिः ।
अधमा मातुलैः ख्याताः श्वसुरैश्चाधमाधमाः ॥४ 468 वत्स यन्न त्वयाऽधीतं मृगनेत्रासु रात्रिषु ।
येन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि ॥५ 469 जीवतोर्वाक्यकरणात् क्षपाहे भूरिभोजनात् ।
छायायां पिण्डपात्राच्च त्रिभिरेव सुतः सुतः ॥६ 470 न खानिता पुष्करिण्यो रापिता न महीरुहः ।
मातुर्यावनचोरेण तेन जातेन किं कृतम् ॥७ 471 अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् ।
ती स्तोकशोकदौ पित्रोमूर्खस्तु बहुशोकदः ॥८ 472 पुत्रोत्पत्तिविपत्तिभ्यां न परं सुखदुःखयोः ।
ब्रह्महत्याश्वमेधाभ्यां न परं पापपुण्ययोः ॥९ 473 तथा भव यथा तात त्रैलोक्योदरदर्पणे । विशेषैर्भूषितस्तैस्तैर्नित्यमात्मानमीक्ष्यसे ॥१०
नलचम्पू ४, १७] 474 किं तेन जातु जातेन मातुर्योवनहारिणा । आरोहति न यस्तस्य वंशस्यायें ध्वजो यथा ॥११
__ निलचम्पू , ४,१९] त्रिविक्रमस्यैते । *अथ सख्युपहासाः । 475 नायातः सामदानाभ्यामिति भेदेऽपि दर्शिते ।
साधु यदुर्विनीतस्य मया दण्डो निपातितः ॥१ 464 ख० यत्त्वया पुत्र नाधीतं । ख. सीदति । 469 ख. प्रतौ न विद्यते । 470 ख. प्रतौ न विद्यते । 471 प. 'चित्रो मूर्खस्तु' । 472 च. 'पुण्यपापयोः' 473 प. 'मात्मानमीक्षते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org