Book Title: Suktiratnakosa Author(s): Lakshman, Nilanjana Shah Publisher: L D Indology AhmedabadPage 66
________________ सूक्तिरत्नकोषः 586 शरद्युत्पन्नसंदेहा सरसो गगनस्य च । चातकाः सलिले पेतुः चक्रवाका नभो ययुः ॥४ अथ हेमन्तः । 587 अव्युत्पन्नस्वभावानां नारीणामिव साम्प्रतम् । सीत्काराचार्यकं कर्तुमयं प्राप्तो हिमागमः ॥१ 588 हे हेमन्त स्मरिष्यामि गते त्वयि गुणद्वयों । अयत्नशीतलं वारि निशाश्च सुरतक्षमाः ॥२ 589 कारणोत्पन्नकोपाऽपि साम्प्रतं प्रमदाजनः । निशि शीतापदेशेन गाढमालिङ्गति प्रियम् ॥३ 590 नीहारपरुषाः लोकाः पृथिवी सस्यमालिनी । जलान्युपभोग्यानि सुभगो हव्यवाहनः ॥४ वाल्मीकिरामायण सं आ. ३, ९५, ५] 591 निवृत्ताकाशशयनाः पुष्यनेत्रा हिमारुणाः ।। शीतवृद्धतरायामास्त्रियामा यान्ति साम्प्रतम् ॥ [वाल्मीकिरामायण सं . ३, १५, १२] अथ चातकः । 592 एक एव खगो मानी सुखं जीवति चातकः । पिपासितो वा म्रियते याचते वा पुरन्दरम् ।।१ [भर्तृहरि, सु. सं. ४३३] 593 कृतनिश्चयता वन्द्या न महत्ताऽतिरिच्यते । चातकः को वराकोऽतो यस्येन्द्रो वारिवाहकः ॥२ अथ बकः । 594 जीवतो गिलन्मत्स्यान् मुनिवत् दृश्यते बकः । मृतानपि न गृध्रस्तान् धिगाकार विडम्बनाम् ॥ अथ हंसः । 595 वसतोऽपि[ति !]शयप्रीत्या मानसै कोवितस्थितेः । पल्बलाम्भसि हंसस्य हंसताऽपि विकल्प्यताम् ॥१ 586. प. शरद्युत्पन्नसंदोहाः ।। 590. ख० नीहारपुरुषाः प० जलान्युपभोगानि ।। 592. ख० जीवतु चासकः 593. ख० कृतनिश्चयता विद्या । 595. ख० प्रतौ न विद्यते हंसपद्धतिः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90