Book Title: Suktiratnakosa Author(s): Lakshman, Nilanjana Shah Publisher: L D Indology AhmedabadPage 65
________________ लक्ष्मणकृतः 574 परिचुम्बति संश्लिष्टो भ्रमर चूतमञ्जरीम् । नवसंगमसंहृष्टः कामी प्रणयिनीमिव ॥८ 575 वने प्रियमपश्यन्ती चिरमन्विष्य कोकिला । प्रविष्टा बहु विक्रुश्य रक्ताशोकहुताशनम् ॥९ अथ ग्रीष्मः। 576 फलितोदुम्बरान्तःस्था कलशब्दाऽपि कोकिला । न भात्यर्थपरैव स्त्री निषण्णा स्थविरोरसि ।।१ 577 न प्रस्नवन्ति गिरयो घोरधर्माभितापिताः । नारीणामतिवृद्धानां जघनानीव साम्प्रतम् ॥२ 578 कोटरान्तःप्रविष्टेन पावकेनेह पादपः । _कृत्वा साधुरिवाकार्यमन्तर्दाहेन दह्यते ॥३ अथ मेघः । 579 आस्ते वा भूभृतां मूर्ध्नि दिवि वा द्योततेऽम्बुदः । मरुद्भिर्लज्ज (?भज्य)मानोऽपि स किमेति रसातलम् ॥३ 580 प्रावृण्मेघस्य मालिन्ये दोषः को भूरिवर्षणे । शारदाभ्रस्य शुचित्वं वद कुत्रोपयुज्यते ॥२ 581 कुतोऽप्यागत्य घटते विघट्य कापि गच्छति । गतिर्न शक्यते ज्ञातुं धनस्य च घनस्य च ।।३ 582 यानि त्वत्प्रार्थनाखिन्नैः पीतान्यणि चातकैः । हन्त तान्यपि नेदानी क्षेप्योन्मेघ (?)किमुच्यते ॥४ अथ शरत् । 583 बभूव गाढसंतापा मृणालवलयोज्ज्वला । उत्केव चन्दनापाण्डुघनस्तनवती शरत् ॥१ 584 मयूरारावमुखरां प्रावृषं सतडिल्लताम् । महाटवीमिवोल्लङ्घय चापानि मुमुचुर्घनाः ॥२ 585 दर्शयन्ति शरन्नयः पुलिनानि शनैः शनैः । नषसंगमसव्रीडा जघनानीव योषितः ॥३ 574 H० कामिनी प्रणयनीमिव' ॥ 575 ख० 'विक्रष्टा'। 576 ५० भात्यर्थपरेय ख. भात्यर्थीपरैव निषिण्णा 577 ख० घोरधर्मानिपातिता नारीणामपि वृद्धाना॥579. स्व० प्रती न विद्यते । 580. ख० प्रतौ अयं श्लोकः ५८१ श्लोकानन्तरं वर्तते । 581 ५० विद्यत यत्क्वापि । 581. ख प्रतौ न विद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90