Book Title: Suktiratnakosa Author(s): Lakshman, Nilanjana Shah Publisher: L D Indology AhmedabadPage 64
________________ सूक्तिरलकोषः अथ स्वानुभवः। 562 दिक्कालाधनवच्छिन्नानन्तचिन्मात्ररूपिणे । स्वानुभत्यै कमानाय नमः शान्ताय तेजसे ॥१ 563 मात्रां यस्योपजीवन्ति जलस्थलनभश्च सः । तं स्वनिर्भासमात्मानं सानन्दं प्रणिदध्महे ॥२ 564 याऽनुभूतिरजाऽमेयाऽनन्ताऽऽत्मानन्दविग्रहा । महदादिजगन्मायाचित्रभित्तिं नमामि ताम् ॥३ 565 इक्षुक्षीररसादीनां माधुर्यस्यान्तरं महत् । मेदस्तथाऽपि नाल्यातुं सरस्वत्याऽपि शक्यते ॥४ 566 काकोलकनिशेवायं संसारोऽज्ञात्मवेदिनोः । या निशा सर्वभूतानामित्युवाच स्वयं हरिः ॥५ अथ वसन्तः । 567 लतां पुष्पवन्तीं स्पृष्ट्वा कृतस्नानो जलाशये । पुनस्तत्सङ्गशङ्कीव वाति वायुः शनैः शनैः ॥१ 568 वान्ति रात्रौ रतक्लान्तकामिनीसुहृदोऽनिलाः । ललनालोलधम्मिल्लमल्लिकामोदवासिताः ॥२ [अमरुशतक,१२१ ] 569 किंशुकव्यपदेशेन तरुमारुह्य सर्वतः । दग्धादग्धान्यरण्यानि पश्यतीव विभावसुः ३॥ [ काव्यालंकार. २.९२] 570 यद्यान्ति शरणं नार्यः स्वयमेव प्रियं जनम् । तद्वसन्तमदान्धस्य परपुष्टस्य चेष्टितम् ४॥ 571 कोकिल चूतशिखरे मजरीरेणुपिञ्जरः । गदितैर्व्यक्ततामेति कुलीनचेष्टितैरिव ५॥ 572 नेयं विरौति भृङ्गाली मदेन मधुरस्वरा । अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥६ 573 बलान्तान्नलिनीनाला हर्षेसजातकण्टकाः । ..मधुरं कोकिलागीतरवं श्रोतुमेवोत्थिताः ॥७ 569 ० दग्धदग्धाम Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90