Book Title: Suktiratnakosa
Author(s): Lakshman, Nilanjana Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 55
________________ ૨૮ लक्ष्मणकृतः 452 यथापल्ल्लवपुष्पाढ्या यथापुष्पफलर्द्धयः । यथाफलर्द्धिप्रारोहा हा मनः क्कागमन् द्रुमाः ॥ १२ 453 पाषाण कलाघीनो यद्गुणग्रामनिर्णयः । स्वर्ण कि न तत्रैव विलीनं दहनोदरे ॥ १३ 454 साध्वेव तद्विधावस्य वेधाः क्लिष्टः न यन्मुधा । स्वरूपाननुरूपेण चन्दनस्य फलेन किम् ॥ १४ मया बदर लुब्धेन वृक्षाणामनभिज्ञया । वने कण्टक सादृश्यात् स्वदिरः पर्युपासितः ॥ १५ 456 महातरुर्वा भवति समूलो वा विनश्यति । नान्तरप्रक्रियामेति न्यग्रोधकणिकाङ्कुरः ॥ १६ 457 पत्रपुष्पकलच्छायामुलवल्कलदारुभिः । धन्या महीरुहो येषां निराशा यान्ति नार्थिनः ॥ १७ 458 छायावन्तो गतव्यालाः स्वारोहा फलदायिनः । मार्गमा महान्तश्व परेषामेव भूतये ॥१८ 455 459 अगतीनां खलीकारान्न दुःखमपि जायते । भवन्त्यशोकाः प्रायेण साङ्कुराः पादताडिताः ॥ १९ 460 भिद्यन्तेऽनुप्रविश्यन्ते यो यथारुच्युपाधिना । विशुद्धिः कीदृशी तस्य जडस्य स्फटिकात्मनः ॥ २० 461 मरौ नास्त्येव सलिलं कृच्छ्रात् यदपि लभ्यते । तत्कस्तोकमुष्णं च न करोति वितृष्णताम् ॥ २१ 462 क्रौञ्चं विहाय स्वं पुत्रं पितरं च हिमालयम् । प्रविश्य जलधि पक्षौ रक्षतानेने किं कृतम् ॥ २२ [अनर्धराघव; ७,२३] 463 नीरसान्यपि रोचन्ते कर्पासस्य फलानि नः । येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥२३ [काव्यालंकार ३, १८] 455 ख प्रतौ न विद्यते । 457 ख० ' पुष्पपत्रफल ० ' । 460 ख प्रतौ न विद्यते 462 ख. 'विहाय पुत्रं च पितरं । 463 ख प्रतौ न विद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90