Book Title: Suktiratnakosa Author(s): Lakshman, Nilanjana Shah Publisher: L D Indology AhmedabadPage 54
________________ सूक्तिरत्नकोषः 439 सर्वराजकदुर्धर्ष सर्वदेवमयं धनुः । भञ्जता रामभद्रेण विजिग्ये भुवनद्वयम् ॥१४ 440 अप्रजं वा दशग्रीवमनुजं वा विभीषणम् ।। अन्वयव्यतिरेकाभ्यां वोरः कमभिषेक्ष्यति ॥१५ अथ प्रकीर्णकम् । 441 मध्यदिना:संतप्तः सरसी गाहते गजः । मन्ये मार्तण्डगृह्यानि पद्मान्युद्धर्तुमुत्सुकः ॥१ 442 कण्टकान्तैरसच्छायैः कर्कशैः कुटिलात्मभिः । वानस्पत्यप्रसूरेभिः करीरैर्मरुमेदिनी ॥२ 443 स्फटिकस्य गुणो योऽसौ स एवायाति दोषताम् । धत्ते स्वच्छतया छायां यतो बलवतामपि ॥३ 444 हन्त चिन्तामणिभ्रान्त्या याचितोऽसि स्तुतोऽसि यत् । तत्सर्वं वृत्तपाषाण क्षम्यतामर्थिनो वयम् ।।४ 445 तालस्तब्धतयारब्धस्तयैव सह नश्यति । पतत्यङ्गारवर्षे वा वाति वा प्रबलेऽनिले ॥५ 446 भवावकेशी यदि वा नेदिष्टफलदो भव । दीर्घसूत्रितयाऽप्येवं तव ताल गोविपिनाः() ॥६ 447 गन्धैकसारो विफलः सेव्यश्चन्दनपादपः । भुजला अप्यनाहाराः सेवका: सदृशो विधिः ॥७ 448 प्रत्यप्रैः पर्णनिचयस्तरुथै रेव वर्धितः । जीर्णा स्त्यजति तानेव किं वा चित्रं कुजन्मनः ॥८ 449 येन पाषाणखण्डस्य मूल्यमल्पं वसुन्धरा । मनस्तमितसारस्य तेजसस्तद्विजम्भितम् ॥९ 450 लूनः खलीकृतः क्षुण्णः शालिय रेव मानवैः । आर्ता स्तानेव पुष्णाति क्षेत्र विकृतिः कुतः ॥१० 451 तुभ्यं दासेर दासीय(?) बदरी यदि रोचते । एतावता [हि किं द्राक्षा न साक्षादमृतप्रपा ॥११ 445 ख. प्रतौ न विद्यते । 446 ख. प्रतौ न विद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90