Book Title: Suktiratnakosa Author(s): Lakshman, Nilanjana Shah Publisher: L D Indology AhmedabadPage 52
________________ सूक्तिरत्नकोषः 413 पिबन्ति मधु पभेषु भृङ्गाः केसरधूसराः । हंसाः सेवालमश्नन्ति घिग्दैवमसमञ्जसम् ॥७ 414 धातस्तात विरुद्धोऽपि द्वितयं मा कृथाः सताम् । भृत्यत्वमविशेषज्ञे स्नेहमन्यरते जने ॥८ भर्तृहरि.सु.सं,५४६] 415 न स प्रकारः कोऽप्यस्ति येनेयं भवितव्यता । छायेव निजकायस्य लक्ष्यते जातु जन्तुभिः ॥९ 416 किं करिष्यति पाण्डित्यं विनयो विक्रमोऽपि वा । दैवो यस्य छलान्वेषी करोति विफलान् गुणान् ॥१० अथ वैद्यकम् । 417 अध्वा जरा मनुष्याणां अनध्वा दन्तिनां जरा । अमैथुनं जरा स्त्रीणामश्वानां मैथुनं जरा ॥१ 418 जीर्णे भोजनमात्रेयः कपिलः प्राणिनां दया । वृहस्पतिरविश्वासः पाञ्चाल: स्त्रीषु मार्दवम् ॥२ 419 दिवा न भुज्यते यच्च यच्च रात्रौ न भुज्यते । जीर्णे न भुज्यते यत्र(च) तेन जीर्यन्ति जन्तवः ॥३ शीतमध्वा कदन्नानि व्यतं तवयसः स्त्रियः । मनसः प्राति कल्यं च जरायाः पञ्च हेतवः ।।४ क्वचिदुष्णं कचित्शीतं क्वचित्क्यथितशीतलम् । कचिद्भेषजसंयुक्तं न क्वचित् वारि वार्यते ॥५ 422 आतपः कटुको रूझछाया मधुरशीतला । कषायमधुरा ज्योत्स्ना सर्वदोषहरं तमः ॥६ 423 वर्जयेद्विदलं शूली मांसं कुष्ठी घृतं ज्वरी । नवमन्नमतिसारी चक्षुरोगी च मैथुनम् ।।७ 424 अन्नादष्टगुणं पिष्टं पिष्टादष्टगुण पयः । पयसोऽष्टगुण मांसं मांसादष्टगुणं घृतम् ॥८ 425 व्यायामः कफनाशाय वातनाशाय मर्दनम् । स्नानं च पित्तनाशाय कुर्यादेतत्त्रय ततः ॥९ 417 ख. ह्यानां मैथुनं जरा । 420 421 - Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90