________________
सूक्तिरत्नकोषः 413 पिबन्ति मधु पभेषु भृङ्गाः केसरधूसराः ।
हंसाः सेवालमश्नन्ति घिग्दैवमसमञ्जसम् ॥७ 414 धातस्तात विरुद्धोऽपि द्वितयं मा कृथाः सताम् । भृत्यत्वमविशेषज्ञे स्नेहमन्यरते जने ॥८
भर्तृहरि.सु.सं,५४६] 415 न स प्रकारः कोऽप्यस्ति येनेयं भवितव्यता ।
छायेव निजकायस्य लक्ष्यते जातु जन्तुभिः ॥९ 416 किं करिष्यति पाण्डित्यं विनयो विक्रमोऽपि वा ।
दैवो यस्य छलान्वेषी करोति विफलान् गुणान् ॥१० अथ वैद्यकम् । 417 अध्वा जरा मनुष्याणां अनध्वा दन्तिनां जरा ।
अमैथुनं जरा स्त्रीणामश्वानां मैथुनं जरा ॥१ 418 जीर्णे भोजनमात्रेयः कपिलः प्राणिनां दया ।
वृहस्पतिरविश्वासः पाञ्चाल: स्त्रीषु मार्दवम् ॥२ 419 दिवा न भुज्यते यच्च यच्च रात्रौ न भुज्यते ।
जीर्णे न भुज्यते यत्र(च) तेन जीर्यन्ति जन्तवः ॥३ शीतमध्वा कदन्नानि व्यतं तवयसः स्त्रियः । मनसः प्राति कल्यं च जरायाः पञ्च हेतवः ।।४ क्वचिदुष्णं कचित्शीतं क्वचित्क्यथितशीतलम् ।
कचिद्भेषजसंयुक्तं न क्वचित् वारि वार्यते ॥५ 422 आतपः कटुको रूझछाया मधुरशीतला ।
कषायमधुरा ज्योत्स्ना सर्वदोषहरं तमः ॥६ 423 वर्जयेद्विदलं शूली मांसं कुष्ठी घृतं ज्वरी ।
नवमन्नमतिसारी चक्षुरोगी च मैथुनम् ।।७ 424 अन्नादष्टगुणं पिष्टं पिष्टादष्टगुण पयः ।
पयसोऽष्टगुण मांसं मांसादष्टगुणं घृतम् ॥८ 425 व्यायामः कफनाशाय वातनाशाय मर्दनम् ।
स्नानं च पित्तनाशाय कुर्यादेतत्त्रय ततः ॥९ 417 ख. ह्यानां मैथुनं जरा ।
420
421
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org