SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः अथ वीरः । 426 पञ्चैव पुत्रास्ते मातर्भविष्यन्ति न संशयः । सकर्णा वा हते पार्थे सार्जुना वा हते मयि ॥१ 427 मादित्यमिव दुष्प्रेक्ष्यं समुद्रमिव दुस्तरम् । वेदार्थमिव दुर्बोधं पश्य कर्ण धनञ्जयम् ॥२ 428 मयि जीवति यत्तातः केशग्रहमवाप्नुयात् । कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम् ॥३ रसनाने त्रयो वेदा कराग्रे सशरं धनुः । द्वाभ्यामपि भयं द्रोणे शापादपि शरादपि ॥४ कौशिकस्वीकृतस्यापि यदा ज्ञातिकमादभूत् । त्रिशङ्कोरुपभोगाय न चौरपि न भूरपि ॥५ [अनर्घराघव १,२१] न सदश्वा कशाघातं न सिंहो घनगर्जितम् । परैरङ्गुलिनिर्देशं न सहन्ते तरस्विनः ॥६ 432 रसनाग्रेषु नीचानां हृदयेषु मनोषिणाम् । वीराणां वसति क्रोधः क्रियासु कृतविस्तरः ॥७ श्रोता यैनं भवेद्योगी देवरूपो न यैः रिपुः । यैरात्मसदृशो नार्थी किं तैः काव्यैबलैर्धनैः ॥८ 434 ददतो युध्यमानस्य पठतः पुलको न चेत् । आत्मनश्च परेषां च घिग्दानं पौरुषं वचः ॥९ 435 पूजितः पाणिमुत्तानं जितः कुण्डलितं धनुः । पुनः करोति चेदने घिग्दानं धिक् च पौरुषम् ॥१. 436 बहवः पङ्गवोऽप्यत्र नराः शस्त्राण्यधीयते । विरला वैरिखनामधारापातसहिष्णवः ॥११ 437 नात्युच्च शिखरो मेरो तिनीचं रसातलम् । नात्यपारं पयोराशिर्व्यवसायसहायिनः ॥१२ 438 मा भैष्ट नैते निस्त्रिंशा नीलोत्पलदलत्विषः । एते वीरावलोकन्याः श्रियो नयनविभ्रमाः ॥१३ 436 ख. शस्त्राण्यधीयते । 437 प. नात्पार पंयोराशिः। 438 प. नेति निसशा । ख. वीरावलोकन्या श्रियो० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy