Book Title: Suktiratnakosa Author(s): Lakshman, Nilanjana Shah Publisher: L D Indology AhmedabadPage 51
________________ ३४ लक्ष्मणकृतः 401 शरणं किं प्रयातानि विषवन्मारयन्ति किम् । न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् ।।७ 402 कृपणेन समो दाता न भूतो न भविष्यति। अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥८ 403 दानोपभोगशून्येन धनेन धनिनो यदि ।। भवामः किं न तेनैव धनेन धनिनो वयम् ॥९ 404 दानोपभोगवन्ध्या या सुहृद्भिर्या न भुज्यते । पुसां स्यादि सा लक्ष्मीरलक्ष्मी कतमा भवेत् ॥१० 405 कृत्वोपकारं यस्तस्माद्वाञ्छति प्रत्युपक्रियाम् । दीनस्तृष्णा विधेयत्वाद्वान्तमप्युपढि सः॥११ 406 ददासि यच्च विप्रेभ्यो यच्चानासि दिने दिने । तत्ते धनमहं मन्ये शेषं कस्यापि रक्षसि ॥१२ अथ दैवम् । 407 कलत्रनिगड दत्त्वा न सन्तुष्टः प्रजापतिः । भूयोऽप्यपत्यदानेन बबन्ध गलशृङ्खलाम् ॥१ 408 यद्भावि न तद्भावि भावि यन्न तदन्यथा । इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ॥२ [भर्तृहरि,सु. सं, ६६६] 409 ये प्रातस्ते न मध्याह्ने ये मध्याह्ने न ते निशि । ये निशायां न तेऽन्येधुरिन्द्रजालमहो विधेः ॥३ 410 परीक्ष्य सत्कुलं विद्या वयः शौर्य सुशीलताम् । विधिददाति निपुणः कन्यामिव दरिद्रताम् ॥४ 411 न केवलं मनुष्येषु दैवं देवेष्वपि प्रभुः । सति मित्रे धनाध्यक्षे चर्मप्रावरणो हरः ॥५ 412 धिग्दैवं लोचने स्वच्छे पात्रं कज्जलभस्मनः । सच्छिद्रो मध्यकुटिलः कर्णः स्वर्णस्य भाजनम् । ६ 401 ख. शरणं किं न प्रयातानि । 403 ख. किं गतेनैव । 404 ख. वन्ध्या य सुहृद्भिः। 405 ख. कृतोपकारं । 406 ख. यच्चानाति । 407 प. विषघ्नोऽयमदः किन्न धीयते। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90