Book Title: Suktiratnakosa Author(s): Lakshman, Nilanjana Shah Publisher: L D Indology AhmedabadPage 59
________________ लक्ष्मणकृतः 501 साधु बाले बहिर्दूरमकारि कुचमण्डलम् । हृदि निमग्नमाधत्ते पीडां जानामि यादृशी ॥६ 502 मृङ्गि कठिनौ तन्वि पीनौ सुमुखि दुर्मुखौ । अत एव बहिर्यातौ हृदयात्ते पयोधरौ ॥७ 503 मुखं ते पादपतिते किंकरे किं करे स्थितम् । मयि कामातुरे कोपं कोपने कोऽपनेष्यति ॥८ अथ गुणाः । 504 गुणानां निर्गुणानां च दृश्यते महदन्तरम् । हाराः कण्ठगताः स्त्रीणां नूपुराणि च पादयोः ॥१ 505 यत्पयोधरभारेषु मौक्सिकैर्निहितं पदम् । तत्प्रच्छादितरन्ध्राणां गुणानामेव चेष्टितम् ॥२ 506 गुणेष्वनादरं भ्रातर्भूरिश्रीरपि मा कृथाः । संपूर्णोऽपि घटः कूपे गुणच्छेदात्पतत्यधः ॥३ 507 गुणैरुत्तुङ्गतामेति नोच्चैरासनसंस्थितेः । प्रासादशिखरारूढः काकः किं गरुडायने । ४ 508 स्यागो गुणो वित्तवतां वित्तं त्या गवतां गुणः । परस्परवियुक्तौ तु वित्तत्यागौ विडम्बना ॥५ 509 नागुणी गुणिनं वेत्ति गुणो गुणेषु मत्सरी ।। गुणी च गुणरागी च विरलः सरलो जनः ॥६ 510 स्वयं स्वगुणविस्तारादुर्णनाभः पतत्यधः । तमेव संहरनूर्वपदमुच्चैः समश्नुते ॥७ 511 विना चक्रं गुणोद्गारः पतनायैव केवलम् । अत्र विप्रतिपन्नानां उर्णनाभो निदर्शनम् ॥८ अथ तपः। 512 यदूरं यदुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्य तपो हि दूरतिक्रमम् ॥१ 513: इन्द्रियाणि पुरा नित्वा जितं त्रिभुवनं त्वया । . .. स्मरद्भिरिव तद्वैरमिन्द्रियोस्त्वं पुनर्जितः ॥२ 506. ख. 'भूरिः श्रीरपि' । 508 प. 'विलुञ्चना' । 512. यद्रे च । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90