Book Title: Suktiratnakosa
Author(s): Lakshman, Nilanjana Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 58
________________ सूक्तिरत्नकोषः 488 येनैवाम्बरखण्डेन दिवा सञ्चरते रविः । तेनैव निशि शीतांशुरहो दारिद्र्यमेतयोः ॥४ 489 भण्डपण्डितयोर्मध्ये वरं भण्डो न पण्डितः । भण्डोsपि (हि) लभते लक्षं विलक्षो याति पण्डितः ॥५ 490 काकभिक्षुकयोर्मध्ये वरं काको न भिक्षुकः । काकोsपि (हि) लभते पिण्डी न पिण्डीमपि भिक्षुकः ||६ 491 कृष्णः क्रीडितवान् गोभिरिति गोतुल्यबुद्धिषु । पक्षपातवती लक्ष्मीरहो देवी पतिव्रता ॥७ 492 केतक्यः कण्टकैः कीर्णाः पद्मिन्यः पङ्कसंभवाः । विलासिन्यः सकुट्टिन्यः के रत्नमनुपद्रवम् ॥८ 493 कायस्थेनोदरस्थेन मातुरामिषशङ्कया । अन्त्राणि यन्न भुक्तानि तत्र हेतुरदन्तता ॥९ 494 काकाल्लौल्यं यमात्क्रौर्य स्थपतेर्दृढघ (घा) तिताम् । आद्याक्षराणि संगृह्य कायस्थः केन निर्मितः ॥ १० 495 असंधिपद विच्छेदं सरस्वत्याः प्रकुर्वताम् । भट्टानां चारणानां च युक्तं लक्ष्मीः प्रसीदति ॥११ अथ चाटुपद्धतिः । 496 त्वं दूरमपि गच्छन्ती हृदयं न जहासि मे 1 दिनावसानच्छायेव पुरो मूलं वनस्पतेः ॥ १ 497 अयं ते विद्रुमच्छायो मरुमार्ग इवाध': 1 करोति कस्य नो मुग्धे पिपासाकुलितं मनः ॥२ 498 कृष्णार्जुनरक्ताऽपि दृष्टिः कर्णावलम्बिनी । अतिविश्वसनीयत्वं कस्य ते कलभाषिणि ॥३ [काव्यादर्श, २, ३३९] 99 निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनी । अन्यथा नोपपद्येत पयोधरभर स्थितिः ॥ ४ 500 मुग्धे धानुष्कता केsयमपूर्वा तव दृश्यते । या विध्यसि चेतांसि गुणैरेव न सायकैः ॥५ Jain Education International [भर्तृहरि, सु, सं, १३३] 493. ५१ पत्रस्य त्रुटेः नोपलभ्यन्ते ४९३तः ५०३ पर्यन्ताः श्लोकाः प प्रती । ६ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90