Book Title: Suktiratnakosa
Author(s): Lakshman, Nilanjana Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 61
________________ ४४ लक्ष्मणकृतः 625 वलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ २ 626 अन्तःसारो विनिर्याति नूनमर्थितया सह । अन्यथा तदवस्थस्य लघिमा केन हेतुना ||३ 627 यन्मृतो याति गुरुतां ज्ञातं तदधुना मया । लाघवस्यार्थिता मूलं मृतस्योपरता हि सा ॥४ पोदारः । 628 एकेन तिष्ठताऽधस्तात् अन्येनोपरि तिष्ठता । दातृयाचकयोर्भेदः कराभ्यामेव सूचितः ॥ १ 629 समानेऽपि दरिद्रत्वे विचित्राश्चित्तवृत्तयः । न दत्तमिति शोचन्ति न लब्धमिति चापरे ॥२ 680 खाकारमात्रविज्ञातसंपादितमनोरथाः । धन्यास्ते ये न शृण्वन्ति दीनाः प्रणयिनां गिरः ॥ ३ 631 देहि देहोति जल्पन्ति त्यागिनोऽप्यर्थिनोऽपि च । आलोचयन्ति रभसादस्ति नास्तीति न कचित् ॥४ 632 अहो बत महत्कष्टं चक्षुष्मानपि याचते । अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुम् ॥५ 638 लक्ष्मीपयोधरोत्सेधकुङ्कुमारुणितो हरे: | बलिरेव स येनास्य भिक्षापात्रीकृतः करः || ६ || अथ रविः । 634 वेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः । न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ १ ॥ 535 तेजसा सह जातानां वयः कुत्रोपयुज्यते । बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् ॥ ॥ 636 सहस्रकरतुष्ट्येव वाञ्छितात् प्राप्यतेऽधिकम् । परितुष्टैरपि पुनः किमन्यैर्द्विचतुः करैः ॥३॥ 537 मध्यस्थोऽपि जगच्छायां यस्त्वमेतां विलुम्पसि । अमध्यस्थः पुनर्मानो न विद्मः किं करिष्यसि ॥४॥ 526 प तदवस्थास्य । 528 ख. प्रतौ न विद्यते । 529. प. नालमति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90