________________
४४
लक्ष्मणकृतः
625 वलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ २ 626 अन्तःसारो विनिर्याति नूनमर्थितया सह ।
अन्यथा तदवस्थस्य लघिमा केन हेतुना ||३ 627 यन्मृतो याति गुरुतां ज्ञातं तदधुना मया । लाघवस्यार्थिता मूलं मृतस्योपरता हि सा ॥४ पोदारः ।
628 एकेन तिष्ठताऽधस्तात् अन्येनोपरि तिष्ठता । दातृयाचकयोर्भेदः कराभ्यामेव सूचितः ॥ १ 629 समानेऽपि दरिद्रत्वे विचित्राश्चित्तवृत्तयः ।
न दत्तमिति शोचन्ति न लब्धमिति चापरे ॥२ 680 खाकारमात्रविज्ञातसंपादितमनोरथाः ।
धन्यास्ते ये न शृण्वन्ति दीनाः प्रणयिनां गिरः ॥ ३ 631 देहि देहोति जल्पन्ति त्यागिनोऽप्यर्थिनोऽपि च । आलोचयन्ति रभसादस्ति नास्तीति न कचित् ॥४ 632 अहो बत महत्कष्टं चक्षुष्मानपि याचते ।
अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुम् ॥५ 638 लक्ष्मीपयोधरोत्सेधकुङ्कुमारुणितो हरे: |
बलिरेव स येनास्य भिक्षापात्रीकृतः करः || ६ || अथ रविः ।
634
वेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः । न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ १ ॥ 535 तेजसा सह जातानां वयः कुत्रोपयुज्यते ।
बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् ॥ ॥ 636 सहस्रकरतुष्ट्येव वाञ्छितात् प्राप्यतेऽधिकम् । परितुष्टैरपि पुनः किमन्यैर्द्विचतुः करैः ॥३॥ 537 मध्यस्थोऽपि जगच्छायां यस्त्वमेतां विलुम्पसि । अमध्यस्थः पुनर्मानो न विद्मः किं करिष्यसि ॥४॥
526 प तदवस्थास्य । 528 ख. प्रतौ न विद्यते । 529. प. नालमति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org