________________
सूक्तिरत्नकोषः 514 उग्रे तपसि लीनानामिन्द्रियाणां न विश्वसेत् ।
विश्वामित्रोऽपि सोत्कण्ठं कण्ठे जग्राह मेनकाम् ॥३ 515 प्रीष्मे पञ्चतपा भूत्वा वर्षास्वभ्रावकाशकः ।
जलशायी च हेमन्ते चरेदुग्रतरं तपः ॥४ 516 भूत्या स्निग्धोदरं रक्षेत्पाणिपादं च चक्षुषा ।
चक्षुः श्रोत्रं च मनसा मनो वाचं च कर्मणा ॥५ 517 शीतवाततपःक्लेशान् यान् सहते स्म सेवकः ।
सहस्रांशतोऽपि ततः तपस्तप्त्वा सुखी भवेत् ॥६ 518 येषां पुत्रा न विद्वांसो द्रविणं न च पुष्कलम् ।
ते कथं मत्तमातङ्गम.ग्नहोत्रमुपासते ॥७ अथ तपस्विनः । 519 प्राक्तनानां विशुद्धानां परिपाकमुपेयुषाम् ।
तपसामुपभुञ्जानाः प(फ.)लान्यपि तपस्विनः ॥१ अथ विद्या । 520 गतेऽपि वयसि ग्राह्या विद्या सर्वात्मा बुधः।
इह स्याञ्च न फलदा सुलभा साऽन्यजन्मनि ॥१ 521 वेश्यानामिव विद्यानां मुख कैः कैर्न चुम्ब्यते ।
हृदयग्राहिणस्तासां विरलाः पुरुषाः पुनः ॥२ अथ माया । 522 दुर्घटत्वमविद्याया भूषणं न तु दूषगम् ।
कथश्चित् घटमानत्वे विद्यात्वं दुर्घट भवेत् ।।१ 523 मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ।
मुक्तावस्थं जगत्सर्व व्यामोहो बन्धकारणम् ॥२ अथ तृष्णा । 524 तृष्णाखानिरगाधेयं दुष्पूग केन पूर्यते ।
या महद्भिरपि क्षिप्तः प्रणैरेव खन्यते ॥१ 515. प. 'विचरेदुग्रतरं तपः' । 516 प. 'भृत्यासिम्नोदरं' । 517. प. सेवकाः । 510 ख प्रतौ न विद्यते 'अथ तपस्विनः' इति पद्धतिः । अतः अयं श्लोकः नास्ति । 521 ख. चुम्बितम्। 522. प. धनमानत्वे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org