________________
४५
सूक्तिरत्नकोषः 538 मादित्येन द्विजेनेव दक्षिणाशावलम्बिना ।
न केवलमनेनात्मा दिवसोऽपि लघूकृतः ॥५॥ 539 वधोतो द्योतते तावद्यावान्नोदेति चन्द्रमा ।
उदिते तु सहस्रांशो न खद्योतो न चन्द्रमा ॥६॥ 540 उदेति रक्तः सविता रक्त एवास्तमेति च ।
संपत्तौ च विपत्तौ च महतामेकरूपता ॥७॥ अथ सरः। 541 कियद गाधमगाधं वा गजं पृच्छ सरः सखे ।
अजः पिबति जानुभ्यां तीरस्थः नीरजं पयः ॥११॥ 542 एकेनापि पुरा पीतः सागरः कुम्भयोनिना ।
सरस्तु रेच्यते नैतदपि तत्पितृकोटिभिः ॥ २॥ अब मृगः । 543 दुर्वाकुरकुशाहारा स्तुत्यास्तात वने मृगाः ।
विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि ये ॥१॥ 544 अमृता विगतप्राणा सान्तःशल्या गतवणाः ।
अबद्धा निश्चला वास्ते कूटसंस्थे मृगे मृगी ॥२॥ अथ धनिनः। 545 भक्ते द्वेषो जडे प्रीतिरुचितं गुरुलचनम् ।
मुखे कटुकता नित्यं धनिनां ज्वरिणां इव ॥१॥ 546 आलिङ्गिताः परैर्यान्ति प्रस्खलन्ति समे पथि ।
अव्यक्तानि च भाषन्ते घनिनो मद्यपा इव ॥२॥ 647 एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
इत्थमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥३॥ 548 अर्थिता विभवस्त्यागः स्वातन्त्र्यमुचितज्ञता ।
इति पञ्चगुणोपेतमीश्वरं संश्रयेद् बुधः ॥४॥ 539 ख. वाञ्छिता प्राप्यतेऽधिकम् । 540 प० उदये रकतः। 541 खातीर
माती पयः। 542 ख० प्रतौ न विद्यते । 543 ख. प्रतौ अत्र. न विद्यते । ...... 545 ख. मुखे च कटुता । ख० प्रवितं गुरुलङ्घने । 546 प० आलिङ्गताः ।
प० अव्यक्तानि च ज्ञायन्ते । 548 प. स्वातंत्र्यमुपचितज्ञता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org