________________
लक्ष्मणकृतः
549 प्रायेण धनिनां लोके धने तृष्णा गरोयप्ती ।
पश्य कोटिद्वयोपेतं लक्षाय प्रणतं धनुः ॥५॥ 550 कोटिद्वयस्य लाभेऽपि नतं सदंशजं धनुः ।
शरस्त्ववंशजः स्तब्धो लक्षलाभस्य शङ्कया ॥६॥ 551 या प्रकृत्यैव चपला निपतत्यशुचावपि ।
स्वामिनो बहु मन्यन्ते दृष्टिं तामपि सेवकाः ॥७॥ 552 आक्षीरधारै कभुनामागभैंकनिवासिनाम् ।
नमोऽर्थेभ्यः पृथक्त्वं ये भ्रातृणामपि कुर्वते ॥८॥ अथ दरिद्री। 553 धर्मार्थ कामहीनस्य परपिण्डान्नभोजिनः ।
काकस्येव दरिद्रस्य दीर्घमायुरनर्थकम् ॥१॥ 554 हे दारिद्रय नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः।
___ जगत्पश्याम्यहं येन न मां पश्यति कश्चन ॥२॥ अथ द्विकम् । 555 द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदेनौ ।
परिवाद योगयुक्तश्च रणे चाभिमुखो हतः ॥१॥ 556 द्वाविमौ पुरुषौ लोके स्वर्गस्योपरि तिष्ठतः ।
प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥२॥ 557 द्वाविमावम्भसि क्षे-यो बद्ध्वा गाढं गले शिलाम् ।
धनिनं चाप्रदातारं दरिद्रं वातपस्विनम् ॥३ द्वाविमौ पुरुषो लोके परप्रत्ययकारिणी ।
नियः कामितकामिन्यो लोकः पूजितपूजकः ।४ 559 द्वाविमौ पुरुषो लोके मुखिनौ न कदाचन् ।
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥५ 560 द्वाविमौ पुरुषो लोके न भूतो न भविष्यतः ।
प्रार्थितो यश्च कुरुते यश्च नार्थयते परम् ॥३ 561- द्वाविमौ सर्वलोकानां शिरःशूलकरी नरौ ।
। गृहस्थश्च निरारम्भो यतिश्च सपरिग्रहः ॥७ 552 ख० आक्षीरनीरजभुजा० । प० ० मागर्भेकनिवासिनाम् । 559. ख प्रती न विद्यते । 560. ख• 'न भूतो न भविष्यतः ॥
558
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org