Book Title: Suktiratnakosa Author(s): Lakshman, Nilanjana Shah Publisher: L D Indology AhmedabadPage 45
________________ लक्ष्मणकृतः 325 वनिताचित्तचपला तडिदम्भोदकुक्षिषु । न तिष्ठति चिरं लक्ष्मीरपात्राङ्कमिवागता ॥१४ 326 कलुषमधुरं चाम्भः सर्व सर्वत्र साम्प्रतम् । मनार्जवजनस्येव कृत व्याहृतं वचः ॥१५ 327 सेन्द्र वापैः श्रिता मेघेर्निपतन्निर्झरा नगाः । वर्णकम्बलसंवीता बभुर्मत्तद्विपा इव ॥१६ 328 सदृष्टपूर्वमस्माभिर्यदेतद्दृश्यतेऽधुना । विषं विषधरैः पीतं मूच्छिताः पथिकाङ्गनाः ।।१७ अथ नीतिः । 329 यथागतं गतं भृङ्गः प्रम्लानं पल्लवैर्निजैः । पश्य स्वपरयोर्भेदं विभग्ने चन्दनद्रुमे ॥१ 330 यस्य विप्रियमन्विच्छेत् ब्रूयात् तस्य सदा प्रियम् । व्याघा मृगवघं कर्तुं गेय गायन्ति सुन्दरम् ॥२ 331 नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति ।। स एव प्रच्युतः स्थानाशूनाऽपि परिभूयते ॥३ 332 चलतणादपि मृगा बिभ्यते मृत्युशङ्कया । व्याधे विश्वासमायान्ति क उपायैर्न वञ्च्यते ॥४ 333 तेजस्विनि क्षमोपेते नातिकार्कश्यमाचरेत् । अतिनिर्मथनादग्निश्चन्दनादपि जायते ॥५ 334 अनुपासितवृद्धानामनाश्रितमहीभुजाम् ।। माचारमुख्याः मुहृदां दूरे धर्मार्थमन्मथाः ॥६ 335 अत्यासन्ना विनाशाय दूरस्था न फलप्रदाः । सेव्या मध्यमभावेन नृपवह्निर्गुरुस्त्रियः ॥७ 336 मृदुनापि हि साध्यन्ते कर्मणा स्वार्थसिद्धयः । असृक पिबति तन्वङ्गी जलौका न च लक्ष्यते ।।८ 337 भीतः पलायमानो वा नान्वेष्टव्यो बलीयसा । . कदाचित् शूरतामेति मरणे कृतनिश्वयः ॥९ 326 ख. प्रतौ न विद्यते । 327 ख० मेधैर्नीरैर्निर्झरा' । 330 प. 'मृगवधु'। 232 4 'बिभ्यतो'। 334 प० 'अवारमुख्या सुहृदाः' । ख० मनाथितमहीभुजाम' । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90