Book Title: Suktiratnakosa
Author(s): Lakshman, Nilanjana Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 48
________________ सूक्तिरत्नकोषः 363 अपकारिणि कोपश्चेत् कोपे कोपः कथं न ते । धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ॥३५ 364 धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि [नम् ] । दुर्वारमरिषड्वर्गे दूरतः त्यजतः सुखम् ॥३६ 365 निद्राभङ्ग कथाच्छेदं सारथ्यं क्रयविक्रयम् । शक्रोऽपि लघुतां याति पञ्चैतानि समाचरन् ॥३७ 366 प्रस्तुतस्य विरोधेन ग्राम्यः सर्वोऽप्युपक्रमः । वीणायां वाद्यमानायां वेदोद्वारो न राजते ॥३८ 367 अम्भो (! अपो ) ग्निर्ब्रह्मतः क्षत्रमश्मतो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ३९ 368 यत्रात्मीयो जनो नास्ति भेदस्तत्र न विद्यते । कुठारैर्दण्डनिर्मुक्तैश्छिद्यन्ते तरवः कथम् ॥४० 369 विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा अनीत्वा पक्कतां धूलिमुदकं नावतिष्ठते ॥४१ 370 त्रय एवाधमा राजन् भार्या दासस्तथा सुतः । यत्ते (?) समधिगच्छन्ति यस्य तस्य तद्धनम् ॥४२ 371 स नयी यस्य मातङ्गा यस्याश्वास्तस्य मेदिनी । कोशो यस्य स दुर्धर्षो दुर्गे यस्य स दुर्जयः ॥ ४३ 372 मन्त्रिणां भिन्नसंघाने भिषजां सान्निपातके । कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥४४ 373 वनानि दहतो वह्नेः सखा भवति मारुतः । स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ||४५ [भर्तृहरि, सु. सं. ७०३] 374 सर्वथाऽपि त्वया राजन् त्रिविधं निष्प्रयोजनम् । न स्थातव्यं न गन्तव्यं न वक्तव्यं कथञ्चन ॥४६ 375 घोटकः कृषिनाशाय वित्तनाशाय कुञ्जरः । श्यालकः सद्मनाशाय सर्बनाशाय मातुलः ॥४७ Jain Education International 363 ख. अपकारणि । 367 प. तप्तोऽग्नि । 370 प. यत्र एवाधुना राजन् । 372 प. स्वास्थे । 373 ख० कस्यास्ति गौरवम् 1375 ख. शालक, सर्वनाशाय मातुकः । . ३१ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90