Book Title: Suktiratnakosa Author(s): Lakshman, Nilanjana Shah Publisher: L D Indology AhmedabadPage 46
________________ 342 सूक्तिरत्नकोषः 338 अतथ्यान्यपि तथ्यानि दर्शयन्ति विचक्षणाः । समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥१० 339 यो यमर्थ प्रार्थयते तदर्थ च घटेत यः । सोऽवश्यं तमवाप्नोति श्रान्तश्चेन्न निवर्तते ॥११ 340 अ‘गुलपरीणाहजिह्वाप्रयासमीरवः ।। सर्वाङ्गीणपरिक्लेशमबुधाः कर्म कुर्वते ॥१२ 341 समुद्रमिव राजानमाश्रितास्तत्फलैषिणः । समूलं वाऽपि नश्यन्ति पारं वा यान्ति संपदः ॥१३ जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः । जितेषु तेषु लोकोऽयं समस्तोऽपि त्वया जितः ॥१४ 343 स्पृशन्नपि गजो हन्ति निघन्नपि भुजङ्गमः ।। हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः॥१५ 344 शतेषु जायते शूरः सहस्रेषु विचक्षणः । दाता शतसहस्रेषु वक्ता भवति वा न वा ॥१६ 345 यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥१७ [ अनर्घराघव, १,४] 346 भकृत्वा परसंतापमगत्वा खलनम्रताम् । अमुक्त्वा महतां मागें यदल्पमपि तद्बहु १८ 347 सर्वे यत्र विनेतारः सर्वे पण्डितमानिनः । सर्वे महत्त्वमिच्छन्ति तद्वन्दमवसीदति ॥१९ 348 क्रियतेऽभ्यर्हणीयाय सज्जनाय यथाञ्जलिः । ततः साधुतरः कार्यो दुर्जनाय शिवार्थिना ॥२० 349 रिषड्वर्ग एवायं तस्यास्तात पदानि षट् । तेषामेकमपि च्छिन्दन् खनय भ्रमरी श्रियम् ॥२१ [ अनर्घराघव,६,९] 340 ख. 'जिह्वाग्रायासभीरवः। 341 लोकोऽयं ख प्रतौ ३३. लोकानन्तर मपलभ्यते ॥ 344 इन्द्रियाणां जयेत्शूरः धर्म चरति पण्डितः । सत्यवादी भवेदवक्ता दाता भूतहितेरतः ॥ इति प प्रतौ 345 प. 'यान्त्यन्यायप्रकृतस्य ॥ 349 ल. एवायमस्याः । प. तेषामेकमछिन्दन् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90