Book Title: Suktiratnakosa Author(s): Lakshman, Nilanjana Shah Publisher: L D Indology AhmedabadPage 43
________________ २४ लक्ष्मणकृतः 300 वरमुन्नतलाजूलात्सटाधूननभीषणात् । सिंहात्पादप्रहारोऽपि मा शगालाधिरोहणम् ॥१ 401 उत्तुङ्गमत्तमातङ्गमस्तकन्यस्तलोचनः । आसन्नमपि सारङ्गमीक्षते न मृगाधिपः ॥३ 402 कोपादेकतलाघातनिपतन्मत्तदन्तिनः ।। हरेर्हरिणयुद्धेषु कियान्व्याक्षेपविस्तरः ॥४ 403 मृगारि वा मृगेन्द्रं वा हरिं व्याहरताज्जनः । तस्य द्वयमपि ब्रीडा क्रीडादलितदन्तिनः ॥५ 404 पदे पदे गजेन्द्राणां दुन्दुभिर्वावदीति यत् । मन्युना तेन मन्येऽहं वने वसति केसरी ॥६ 405 तावद्गर्जन्ति मातङ्गा वने मदभरालसाः । शिरोषिलग्नलाङ्गलो यावन्नायाति केसरी ॥७ 406 निपतन्ति न मातङ्गकुम्भपाटनलम्पटाः । वल्गत्स्वपि कुरङ्गेषु मृगारेर्नखराः स्वराः ॥८ 407 सिंहिकासुतसंत्रस्तः शशः शीतांशुमाश्रितः । ___ जग्रासे साश्रयं तत्र तमन्यः सिंहिकासुतः ॥९ 408 किं कूर्मः क उपालभ्यो यत्रेदमसमञ्जसम् । का काकिण्यपि सिंहस्य मूल्यं कोटिस्तु दन्तिनः ॥१० 409 शशैलीनं मृगैर्नष्टं वराहैवलितं रुषा । हयानां हृषितं श्रुत्वा सिहैः पूर्ववदासितम् ॥११ 410 मृगैाप्तं सदा क्षेत्रं रक्ष्यते तृणमानुषैः । सिंहस्तु तत्परिक्रान्तं न गजैन च वाजिभिः ॥१२ 411 मत्तेभकुम्भनिर्भेदकठोरनवराशनिः ।। मृगारिरिति नाम्नैव लघुतामेति केसरी ॥१३ भर्तृहरि, सु. सं. ६३८] अथ वर्षा । 312 गर्ज वा वर्ष वा मेघ मुव वाशनितोमरम् ।। गणयन्ति न शीतोष्णं वल्लभाभिमुखा नराः ॥१ 300 ख० वरमुत्तुङ्गलाङ्गलात् । 303 ख. 'स्याहरतां जनः' । 305 प. 'यावसायान्ति.' । ३12. ख प्रतौ न विद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90