________________
२४
लक्ष्मणकृतः
300 वरमुन्नतलाजूलात्सटाधूननभीषणात् ।
सिंहात्पादप्रहारोऽपि मा शगालाधिरोहणम् ॥१ 401 उत्तुङ्गमत्तमातङ्गमस्तकन्यस्तलोचनः ।
आसन्नमपि सारङ्गमीक्षते न मृगाधिपः ॥३ 402 कोपादेकतलाघातनिपतन्मत्तदन्तिनः ।।
हरेर्हरिणयुद्धेषु कियान्व्याक्षेपविस्तरः ॥४ 403 मृगारि वा मृगेन्द्रं वा हरिं व्याहरताज्जनः ।
तस्य द्वयमपि ब्रीडा क्रीडादलितदन्तिनः ॥५ 404 पदे पदे गजेन्द्राणां दुन्दुभिर्वावदीति यत् ।
मन्युना तेन मन्येऽहं वने वसति केसरी ॥६ 405 तावद्गर्जन्ति मातङ्गा वने मदभरालसाः ।
शिरोषिलग्नलाङ्गलो यावन्नायाति केसरी ॥७ 406 निपतन्ति न मातङ्गकुम्भपाटनलम्पटाः ।
वल्गत्स्वपि कुरङ्गेषु मृगारेर्नखराः स्वराः ॥८ 407 सिंहिकासुतसंत्रस्तः शशः शीतांशुमाश्रितः । ___ जग्रासे साश्रयं तत्र तमन्यः सिंहिकासुतः ॥९ 408 किं कूर्मः क उपालभ्यो यत्रेदमसमञ्जसम् ।
का काकिण्यपि सिंहस्य मूल्यं कोटिस्तु दन्तिनः ॥१० 409 शशैलीनं मृगैर्नष्टं वराहैवलितं रुषा ।
हयानां हृषितं श्रुत्वा सिहैः पूर्ववदासितम् ॥११ 410 मृगैाप्तं सदा क्षेत्रं रक्ष्यते तृणमानुषैः ।
सिंहस्तु तत्परिक्रान्तं न गजैन च वाजिभिः ॥१२ 411 मत्तेभकुम्भनिर्भेदकठोरनवराशनिः ।। मृगारिरिति नाम्नैव लघुतामेति केसरी ॥१३
भर्तृहरि, सु. सं. ६३८] अथ वर्षा । 312 गर्ज वा वर्ष वा मेघ मुव वाशनितोमरम् ।।
गणयन्ति न शीतोष्णं वल्लभाभिमुखा नराः ॥१ 300 ख० वरमुत्तुङ्गलाङ्गलात् । 303 ख. 'स्याहरतां जनः' । 305 प. 'यावसायान्ति.' । ३12. ख प्रतौ न विद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org