SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सूक्तिरलकोषः 813 स्फुरन्तः पिङ्गलाभासाः पृथिव्यामिन्द्रगोपकाः । सरक्तवाताः(न्ताः) पान्थस्त्रीजीवा इव चकासति ॥२ 314 हसतीव बलाकाभिर्नृत्यतीव तडिद्भुजैः । रोदतीवाम्बुधाराभिरुन्मत्तक इवाम्बरम् ॥३ 315 कशाभिरिव हैमीभिर्विधुद्भिर भिताडितम् । ___ स्तनत्यन्तर्गतावर्ष(?)वेदनातनि[मि]वाम्बरम् ॥४ वाल्मीकिरामायण, ४, २७, ११] 316 रतसंमर्दविच्छिन्ना स्वर्गस्त्रीहारपङ्क्तयः । पतन्तीवाकुला दिक्षु तोयधारा मधुव्रताः(१) ।।५ 317 भृशं शुशुभिरे शुभैर्दिशः कुटजकुमलैः । मेघरुद्धवियन्मार्गावतीर्णैरिव तारकैः ॥६ 318 अकालजलदच्छन्नमालोकच रविमण्डलम् । चक्रवाकयुगं रौति रजनीभयशङ्कया ॥७ 319 मालतीमुकुले भाति मञ्जुगुञ्जन्मधुव्रतः । प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ।।८ 320 निलीयमानैश्च खगैः संमीलद्भिश्च पङ्कजैः । विकसन्त्या च मालत्या ज्ञायतेऽस्तं गतो रविः ॥९ 321 जहुरुन्मागेंगामानि निम्मगाम्भांसि सर्वतः । मनांसि दुर्विनीतानां व्याप्य लक्ष्मी नवामिव ॥१० 322 मेघोदरविनिमुक्ताः कन्हारस्पर्शितलाः । शक्या अञ्जलिभिः पातुं वाता: केतकगन्धिनः ॥११ दशैते वास्मीकेः । [वाल्मीकिरामायण, १, २७, ८] 323 अतसीपुष्पसंकाशं संवीक्ष्य जलदागमं । ये वियोगेऽपि जीवन्ति न तेषां विद्यते भयम् ॥१२ 324 नीलमेघशुकाघातदलितादर्कदाडिमात् । कुलाभिरिव पिङ्गाभिy विभातीन्द्रगोपकैः ॥१३ 313. ख प्रतौ न विद्यते । 314-317 लोका: ख प्रतौ न विद्यन्ते । 319. ख० मु गुञ्जन्मधुव्रतः । 320 प. 'जायतेऽस्तं' । 324 ख प्रतौ न विद्यते । प. विभान्तीन्द्रगोपकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy