________________
लक्ष्मणकृतः
325 वनिताचित्तचपला तडिदम्भोदकुक्षिषु ।
न तिष्ठति चिरं लक्ष्मीरपात्राङ्कमिवागता ॥१४ 326 कलुषमधुरं चाम्भः सर्व सर्वत्र साम्प्रतम् ।
मनार्जवजनस्येव कृत व्याहृतं वचः ॥१५ 327 सेन्द्र वापैः श्रिता मेघेर्निपतन्निर्झरा नगाः ।
वर्णकम्बलसंवीता बभुर्मत्तद्विपा इव ॥१६ 328 सदृष्टपूर्वमस्माभिर्यदेतद्दृश्यतेऽधुना ।
विषं विषधरैः पीतं मूच्छिताः पथिकाङ्गनाः ।।१७ अथ नीतिः । 329 यथागतं गतं भृङ्गः प्रम्लानं पल्लवैर्निजैः ।
पश्य स्वपरयोर्भेदं विभग्ने चन्दनद्रुमे ॥१ 330 यस्य विप्रियमन्विच्छेत् ब्रूयात् तस्य सदा प्रियम् ।
व्याघा मृगवघं कर्तुं गेय गायन्ति सुन्दरम् ॥२ 331 नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति ।।
स एव प्रच्युतः स्थानाशूनाऽपि परिभूयते ॥३ 332 चलतणादपि मृगा बिभ्यते मृत्युशङ्कया ।
व्याधे विश्वासमायान्ति क उपायैर्न वञ्च्यते ॥४ 333 तेजस्विनि क्षमोपेते नातिकार्कश्यमाचरेत् ।
अतिनिर्मथनादग्निश्चन्दनादपि जायते ॥५ 334 अनुपासितवृद्धानामनाश्रितमहीभुजाम् ।।
माचारमुख्याः मुहृदां दूरे धर्मार्थमन्मथाः ॥६ 335 अत्यासन्ना विनाशाय दूरस्था न फलप्रदाः ।
सेव्या मध्यमभावेन नृपवह्निर्गुरुस्त्रियः ॥७ 336 मृदुनापि हि साध्यन्ते कर्मणा स्वार्थसिद्धयः ।
असृक पिबति तन्वङ्गी जलौका न च लक्ष्यते ।।८ 337 भीतः पलायमानो वा नान्वेष्टव्यो बलीयसा । . कदाचित् शूरतामेति मरणे कृतनिश्वयः ॥९ 326 ख. प्रतौ न विद्यते । 327 ख० मेधैर्नीरैर्निर्झरा' । 330 प. 'मृगवधु'। 232 4 'बिभ्यतो'। 334 प० 'अवारमुख्या सुहृदाः' । ख० मनाथितमहीभुजाम' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org