________________
सूक्तिरत्नकोषः 289 बुद्धतत्त्वस्य लोकोऽयं जडोन्मत्तपिशाचवत् ।
बुद्धतत्त्वोऽपि लोकस्य जडोन्मत्तपिशाचवत् ॥२ 290 युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुः:स्वहा ॥३ 291 नापृष्टः कस्यचिद्यान्न चान्यायेन पृच्छतः ।
विजानन्नपि योगीन्द्रो जडवल्लोकमाचरेत् ।।४ 292 अहेरिव गणा(१जना)द्भीतः सन्मानान्नरकादिव ।
राक्षसीभ्य इव स्त्रीभ्यस्तं देवा योगिनं विदुः ॥५ 293 अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः ।
शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥ 294 या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ॥७
[भगवद्गीता, २, ६९] 295 कुणपः कामिनी भक्ष्यमिति तिस्त्रो विकल्पनाः ।
योषिति ध्यानयोगेन योगिनः कामिनः शुनः ॥८ 296 प्रज्ञातब्रह्मतत्वोऽपि स्वर्गीय रेष खेलति । गृहस्थसमयाचारप्रक्रान्तैः सप्ततन्तुभिः ॥९
[अनर्घराघव, २,३५] 297 अविद्याबीजविध्वंसादयमार्षेण चक्षुषा । कालो भूतभविष्यन्तौ वर्तमानमवीविशत् ॥१०
अनर्घराघव, २,३४] 293 येन केनचिदाच्छन्नो येन केनचिदाशितः ।
यत्र कचन शायो यस्तमाहुर्मुक्तलक्षणम् ॥११ मथ सिंहः । 299 मत्तेभकुम्भनिर्भेदरुधिरारुणपाणिना ।
हरिणा हरिणाः स्पर्धा वराकाः कुर्वते कथम् ॥१ 291. ख निर्भराः। 292. शोभनं मनो यस्य इति प प्रतौ टिप्पणी ॥ 295. ख. 'कुणप' । 296. ख० प्रतौ न विद्यते । 297. प० 'आर्षेषाचक्षुषा' । 298. ख० 'यत्र न वचन। *. अथ सिंहप्रक्रमः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org