Book Title: Suktiratnakosa Author(s): Lakshman, Nilanjana Shah Publisher: L D Indology AhmedabadPage 41
________________ लक्ष्मणकृतः 277 यदि सा चारसर्वाङ्गी चित्ते मे वसति प्रिया । तत्कथं शून्यचित्तोऽहमहो विधिविपर्ययः ॥४७ 278 अहो अहं नमो मह्यं यदहं वीक्षितोऽनया । बालया त्रस्तसारङ्गतरेलायतनेत्रया ॥४८ 279 तावदेवामृतमयी यावल्लोचनगोचरे । चक्षुःपथादपेता तु विषादप्यतिरिच्यते ॥४९ [भर्तृहरि, सु. सं, १२५] 280 हन्तव्यपक्षे निक्षिप्ता यदि नाम विधेयम् । उपाया किमु नान्ये स्युर्दर्शिता यन्मृगेक्षणा ।५० 281 तन्व्या विप्रयुक्तस्य दिवसा यान्ति ये मम । निघृणस्तानपि यमः प्रायेण गणयिष्यति ।५१ 282 विरहे मृगशावाक्ष्या तयैवोपकृतं मम । यदन्यत्रीपरिष्वङ्गप्रार्थनाशल्यमुद्धृतम् ॥५२ . 283 मूढाः संयोगमिच्छन्ति वियोगस्तु मयेष्यते । एकव संगमे बाला वियोगे तन्मयं जगत् ॥५३ 284 अपेहि हृदयाद्वा मे वामे दर्शनमेहि वा । अदूरविरहोत्कण्ठा दुखं दुःखेन सह्यते ॥५४ 285 निद्रामप्यभिनन्दामि क्षणचैतन्यहारिणीम् । किं पुनर्मूगशावाक्ष्याः वियोगे मरणोत्सवम् ॥५५ 286 अस्या मुखेन लोकानां हृतपङ्कजकान्तिना । निशासु नाशिता निद्रा कुमुदानामिवेन्दुना ॥५६ 287 यत्पराघोनयोः प्रेम दैवादुत्पद्यते क्वचित् । तत्र विमुच्य लज्जां वा जीवितं वा कुतः सुखम् ।।५७ अथ योगी 288 सुभाषितेन गीतेन विलासेन च योषितः । यिते नो मनो यस्य स योगी वाऽथवा पशुः ॥१ ॥282॥ एकैवावियोगेन-- ---- कृतोपकार एवायं विरह. केन निन्द्यते ॥२८ " इति प प्रतौ ॥ 287.ख प्रतौ विरहिणीपद्धतौ अयमन्त्यः लोकः । प प्रतौ अत्र नोपलभ्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90