Book Title: Suktiratnakosa Author(s): Lakshman, Nilanjana Shah Publisher: L D Indology AhmedabadPage 40
________________ सूक्तिरत्नकोषः 264 विहाये(रो) मृगशावाक्ष्याः सुगताधिष्ठितो यदि । कथं वसति तत्रैव स्मरो विगतकार्मुकः ॥३४ 265 सखे समं प्रयातेषु समस्तेष्विन्द्रियेषु मे । मनो गृहीतं तन्वतया कस्यचित्किञ्चिदीप्सितम् ॥३५ 266 यो यः पश्यति तन्नेत्रे रुचिरे वनजायते । तस्य तस्यान्यनेत्रेषु रुचिरेव न जायते ॥३६ 267 कथं मुग्धे कथं वक्र कान्तायास्ते विलोचने । कथं जनानुरागाय कथं जनविपत्तये ॥३७ 268 सा श्रुता हृदि तापाय दृष्टोन्मादाय केवलम् । स्पृहा(ष्टा:) भवति शोभा(का)य सा नाम दयिता कथम् ॥३८ 269 मां प्राप्य दैवहतक मुनेरप्यनृतं वचः । यतः प्रियावियोगस्य क्षणभङ्गो न दृश्यते ॥३९ 270 नुनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः । यतस्तन्नेत्रसंचारसूचितेषु प्रवर्तते ।।४० [भर्तृहरि, सु.सं, १२५] 271 यस्य केशेषु जीमूताः नद्यः सर्वाङ्गसन्धिषु । कुक्षौ समुद्राश्चत्वारः स जयेद्विरहानलम् ॥४१ 272 येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्न व्याकरणं प्रोक्तं स तन्व्याः कथयेद्गुणान् ॥४२ 273 गुरुणा स्तनभारेण सोपदिष्टा तथामुना । यथा तत्क्षणमेवास्ता(प्ता) तया नयसमा गतिः ॥४३ 274 सति प्रदीपे सत्यर्के सत्सु तारामणीन्दुषु । विना मे मृगशावाक्ष्यास्तमोभूनमिदं जगत् ॥४४ 275 मुखेन चन्द्रकान्तेन महानील: शिरोरुहैः । हस्ताभ्यां पनरागाभ्यां रेजे रत्नमयीव सा ॥४५ [भर्तृहरि, सु. सं, १३१] 276 गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता । शनैश्वराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥४६ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90