Book Title: Suktiratnakosa Author(s): Lakshman, Nilanjana Shah Publisher: L D Indology AhmedabadPage 38
________________ सूक्तिरत्नकोषः 236 दिव्यचक्षुरहं जातः सरागेणापि चेत पा । दूरस्थो येन पश्यामि देशान्तरगतां प्रियाम् ॥६।। 237 एकतो दिवसान्कान्ता गणयत्यन्यतो यमः । न विद्मः प्रथमं कस्य यास्यामो वयमन्तिकम् ।।७।। 238 अग्रतो बाहुपाशेन केशपाशेन पृष्ठतः । पार्श्वतः केशपाशेन(?) सर्वतो बन्धनं हि सा ॥८॥ 239 मध्येनैकेन तन्वङ्गयाः क्षामेण क्षपिता वरम् । उन्नतं स्तनयुग्मं तु न विभः किं करिष्यति ॥९॥ 240 मध्यदेशात्पुनः काञ्चीदेशं गच्छद्भिराकुलैः । तन्व्या वपुषि लोकस्य लोचनैः पथिकायितम् ॥१०॥ 241 अनया जघनाभोगभरमन्थरया तया । अन्यतोऽपि वजन्त्या मे हृदये लिहितं पदम् । ११ । 242 मम कामशराघातैर्बणिते हृदये स्थिता । कथं सळवणा तन्वी संतापं न करिष्यति । १२॥ 243 लवणं क्षिप्यते यत्र तत्पात्रं क्षीयते किल । लावण्यं तव तन्वङ्गि कथं क्षीयामहे वयम् ॥१३॥ 244 सा यौवनमदोन्मत्ता वयमस्वस्थचेतसः । तस्या लावण्यमङ्गेषु दाहोऽस्मासु विज़म्भते ॥१४।। 245 क्षिपतोऽप्यन्यतश्चित्तं सैव सारङ्गलोचना । शङ्केव कृतपापस्य हृदयान्नापसर्पति ॥१५॥ 246 एकमुत्कण्ठया व्याप्तमन्यदयितया हृतम् । चेतनामपरं धत्ते कियन्(न्ति) हृदयानि मे ॥१६॥ 247 हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता । संभावितैकदेशेन देयं यदभियुज्यते ॥१७॥ विक्रमोर्वशीयम्, ४, १७] 248 प्रियानेत्रमुखच्छायाहृतलावण्यशोभयोः । समानदुःखयोरैक्यं युक्तं तन्मृगचन्द्रयोः ॥१८॥ 249 वाहि वात यतः कान्तां तां स्पृष्ट्वा मामपि स्पृश । बह्येतत्कामयानस्य शक्यमेतेन जीवितुम् ॥१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90