Book Title: Suktiratnakosa Author(s): Lakshman, Nilanjana Shah Publisher: L D Indology AhmedabadPage 36
________________ सूक्तिरत्नकाषः 211 किं चित्रं यदि तन्वतयाः स्तनाभ्यां निर्जितं जगत् । एको जयति सद्धृतः किं पुनो सुसंहतो ॥३१ 212 कण्ठस्य विदधे कान्ति मुक्ताभरणता यथा । तस्याः स्वभाव म्यस्य मुक्ताभरणता य(त)था । ३२ 213 अतः परमगम्योऽयं पन्था विश्रम्यतामिति । प्रत्यक्षियुगलं तस्याः कणों वक्तुमिव स्थितौ ॥३३ 214 न युक्तं स्वच्छमध्यानां बहुश्रुतविलङ्घनम् ॥ इत्यवेत्य स्थितौ तन्व्याः कर्णावाश्रित्य लोचनी ।।३४ 215 समस्तस्यापि रत्नस्य व्रणेऽर्घः परिहीयते । दयिताधररत्नं तु व्रणितं यात्यनर्धताम् ।।३५ 216 द्विजसङ्गतिमासाद्य सर्वो रागाद्विमुच्यते । रक्तस्तथापि तन्वङ्गया बिम्बोष्ठः केन हेतुना ॥३६ 217 मन्ये नेत्रपथं तस्यां गतायां लोलचक्षुषि । बभूवुः पञ्चबाणस्य स्वबाणा एव वैरणः ॥३७ अथ विरहिणी। 218 यामीति प्रियपृष्टायाः प्रियायाः कण्ठवर्तिनोः । वचोजीवितयोर्जातः पुरोनिःसरणे रणे(णः) ॥१ 210 शय्या प्रकल्पितैकत्र चितैकत्र प्रकल्पिता । अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति ॥२ 220 गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥३ [ काव्यादर्श,२,१४१ 221 हस्तम कृष्य यातोऽप्ति बलादिति किमद्भुतम् । हृदयाद्यदि निर्याति पौरुषं गणयामि ते ।।४।। 222 अदर्शने (अदृष्टे) दर्शनोत्कण्ठा दृष्टे विच्छेद पीरुता । नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥५ 223 अयि लच्चितमयोद स्मर स्मर हरानलम् । दग्ध दग्धुमयुक्तं ते जनं विरहविह्वलम् ॥६ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90