Book Title: Suktiratnakosa Author(s): Lakshman, Nilanjana Shah Publisher: L D Indology AhmedabadPage 35
________________ लक्ष्मणकृतः 196 नई तदीये संतापं यजनस्यानुरागिणः । __जनयांचक्रतुस्तीवं तत्र हेतुर्विलोमता ॥१६ 197 तत्त्रिविष्टपमाख्यातं तन्वङ्गया यदलित्रयम् । यत्रानिमेषदृष्टित्वं नृणामप्युपजायते ।।१७ 198 यन्न माति तदङ्गेषु लावण्यमिति संभृतम् । पिण्डीकृतमुरोदेशे तत्पयोधरतां गतम् ॥१८ 199 हाराय गुणिने स्थानं न दत्तमिति लज्जया । तन्वङ्गयाः कुचयुग्मेन मुखेन प्रकटोकृतम् ॥१९ 200 उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तन्न्याः कं न चक्रेऽभिलाषिणम् ॥२० 201 भूर्भुवःस्वर्विभूतीनां सौभाग्यं यत्प्रसादतः । ताभ्यः सकर्णः को नाम कामिनीभ्यः पराङ्मुखः ॥२१ 202 विधायापूर्वपूर्णेन्दुमस्या मुखमभूध्रुवम् । धाता निजासनाम्भोजविनिमीलनदुःस्थितः ॥२२ [ रत्नावली, २,८] 203 स्त्रीति नामातिमधुरं कुर्यात्कं न स्मरातुरम् । किमुतौदार्यचातुर्यप्रसादमधुरं वचः ॥२३ 204 अकृत्रिमप्रेमरसा विलासालसगामिनी । असारे दग्धसंसारे सारं सारङ्गलोचना ॥२४ 205 अभ्यासः कर्मणां नित्यमुत्पादयति कौशलम् । विधिना तावदभ्यस्तं सृष्टा यावन्मृगेक्षणा ॥२५ 206 अस्याः कान्तस्य रूपस्य सौपम्यातिशायिनः । गच्छेदेकैव सादृश्यं स्वच्छाया दर्पणाश्रिता ॥२६ 207 मारयन्त्या जनं तस्या निरागस वज्ञया । मातङ्गानां गमिर्यादृक् तादृगासीदसंशयम् ॥२७ 208 धाता यदि न चक्षुष्का केनेयं निर्मितेदशा । अथ चेद् दृ . स यस्य को हे तरपग्रहे ॥२८ 209 तस्या बापि हारेण निसर्गादेव हरिणौ । जनयामासतुः कस्य विस्मयं न पयोधरौ ॥२९ 210 कि चित्रमुन्नतश्रीको यत्प्रियायाः पयोधरी । तस्या हृदयलाभेन जायते कस्य नोन्नतिः ॥३० Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90