Book Title: Suktiratnakosa Author(s): Lakshman, Nilanjana Shah Publisher: L D Indology AhmedabadPage 26
________________ सूक्तिरत्न कोषः 92 विद्यायां दुर्मदो येषां कार्पण्यं विभवे सति । तेषां देवाभिशप्तानां सलिलादग्निरुत्थितः || ८ 93 स्वस्ति क्षत्रियदेवाय जगद्देवाय भूभुजे । यद्यशः पुण्डरीकान्तर्गगनं भ्रमरायते ॥ ९ 94 महिम्नामन्तरं पश्य शेषाहेः सान्धिभूधरा । फणाकुमुदमालायां भ्रमरीव विभाति भूः ॥ १० 95 तमस्ततिगुहालीन चन्द्रः कामिजनं हठात् । समर्पयति कामस्य दर्शनप्रतिभूवि ॥। ११ 96 दामोदरकराघातविह्वलीकृतचेतसा । दृष्टं चाणुरमल्लेन शतचन्द्रं नभस्तलम् ॥१२ 97 नमः कर्पूरगौराभं चन्द्रो विद्रुमपाटलः । कज्जलं क्षीरसंकाशं करिष्यति शनैः शनैः ||१३ 98 सीतासमागमोहकण्ठाकर्णान्ता कृष्टधन्विनः । राघवस्य शराङ्गारैः समुद्रादधूलिरुत्थिता ॥ १४ 99 दुरस्था दयिता यस्य नवा पीनपयोधरा । तस्य सतापशमने न वापी न पयोधरा ॥ १५ 100 एहि गच्छ पतोत्तिष्ठ वद मौन समाचर । इति वित्रस्तसारङ्गनेत्रया को न कारितः ॥ १५ 101 यदि नामास्य कायस्य यदन्तस्तद्वहिर्भवेत् । प्रयत्नेनैव तन्वङ्गी बहिर्दृश्येत सा तदा ॥ १७ 102 वया विवीबुवूवेवैवोवीवंव इति स्वराः । प्रावर्तन्त रिपुखीणां पूहि सैनिकैः कृते ॥ १८ 93 'मध्ये' इति प. प्रतौ टिप्पणी । 94 'अन्धकार सन्तति' इति प. प्रतौ टिप्पणी । ख. 'चन्द्र कामिजनं' । 95 97 ' उदितः' इति प. प्रतौ टिप्पणी । ख. 'नभः कर्पूरपुरा' | प० 'त्रिस्तसारङ्गत्रयाः । 99 101 प० ' यदन्तहिभवेत् । ૨ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90