________________
सूक्तिरत्न कोषः
92 विद्यायां दुर्मदो येषां कार्पण्यं विभवे सति । तेषां देवाभिशप्तानां सलिलादग्निरुत्थितः || ८ 93 स्वस्ति क्षत्रियदेवाय जगद्देवाय भूभुजे ।
यद्यशः पुण्डरीकान्तर्गगनं भ्रमरायते ॥ ९ 94 महिम्नामन्तरं पश्य शेषाहेः सान्धिभूधरा ।
फणाकुमुदमालायां भ्रमरीव विभाति भूः ॥ १० 95 तमस्ततिगुहालीन चन्द्रः कामिजनं हठात् । समर्पयति कामस्य दर्शनप्रतिभूवि ॥। ११ 96 दामोदरकराघातविह्वलीकृतचेतसा ।
दृष्टं चाणुरमल्लेन शतचन्द्रं नभस्तलम् ॥१२ 97 नमः कर्पूरगौराभं चन्द्रो विद्रुमपाटलः ।
कज्जलं क्षीरसंकाशं करिष्यति शनैः शनैः ||१३ 98 सीतासमागमोहकण्ठाकर्णान्ता कृष्टधन्विनः ।
राघवस्य शराङ्गारैः समुद्रादधूलिरुत्थिता ॥ १४ 99 दुरस्था दयिता यस्य नवा पीनपयोधरा ।
तस्य सतापशमने न वापी न पयोधरा ॥ १५ 100 एहि गच्छ पतोत्तिष्ठ वद मौन समाचर ।
इति वित्रस्तसारङ्गनेत्रया को न कारितः ॥ १५ 101 यदि नामास्य कायस्य यदन्तस्तद्वहिर्भवेत् ।
प्रयत्नेनैव तन्वङ्गी बहिर्दृश्येत सा तदा ॥ १७ 102 वया विवीबुवूवेवैवोवीवंव इति स्वराः ।
प्रावर्तन्त रिपुखीणां पूहि सैनिकैः कृते ॥ १८
93 'मध्ये' इति प. प्रतौ टिप्पणी ।
94 'अन्धकार सन्तति' इति प. प्रतौ टिप्पणी । ख. 'चन्द्र कामिजनं' ।
95
97 ' उदितः' इति प. प्रतौ टिप्पणी । ख. 'नभः कर्पूरपुरा' | प० 'त्रिस्तसारङ्गत्रयाः ।
99
101 प० ' यदन्तहिभवेत् ।
૨
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org