SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 80 वयसः परिणामेऽपि यः खलः खल एव सः । सुपक्वमपि माधुर्य नोपयातीन्द्रवारुणम् ॥२१ . 81 विसंवादेन मनसः कर्तव्ये भाषमाणया । वच्यते स कथं नान्यैर्वञ्चितो यः स्वजिह्वया ॥२२ 82 अहो कुटिलबुद्धीनां दुर्ग्राह्यमसतां मनः । . अन्यचसि कण्ठेऽन्यदन्यदोष्ठपुटे स्थितम् ॥२३ येषां प्राणिवधः क्रीडा नर्ममर्महरं वचः । कार्य परोपतापित्वं ते मृत्योरपि भृत्यवः ॥२४ 84 परोपघातविज्ञानलाभमात्रोपजीविनाम् । .. दासानामिव धूर्तानां जालाय गुणसङ्ग्रहः ॥२५ अथ समस्या। 85 भीष्मग्रीष्मर्तुसंतापशून्यरध्यान्तरस्थयोः अन्योन्यालापसुखिनोदूंनोश्चन्द्रायते रविः ॥१ 86 कचित् मृगशिरः सान्द्रं कचिदालम्बिकृत्तिकम् । कचित् श्रवणसङ्कीर्ण नभो व्याधगृहायते ॥२ 87 कामधूमध्वजः कोऽपि नवस्तव हृदि प्रिये । रोमरेखामिषाधस्य धूमवर्तिरधोमुखी ।।३ 88 सहस्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् । दलितश्चकितश्छन्नस्त्वदले देव सर्पति ॥४ विद्यापतेः॥ 89 असमानसमानत्वं भविता कलहे मम । इति मत्वा ध्रुवं मानी मृगासिंहः पलायते ॥५ 90 प्रावृषि प्रियमुक्तायाः प्रियायाः प्राणहारिणि प्रियागमनदूतेन विद्युत्काकेन लक्षिता ।। 91 दिक्षु भूमौ गिरौ व्योम्नि सर्वत्रापि विभाव्यते । स्मयते प्राणसंदोहे तन्वी नारायणायते ॥७ 81 प० सजिहया ।। 86 . प. प्रतौ 'बहलं' इति टिप्पणी । 88 प. 'स्वदलादेव' । 'आदित्य' इति प. प्रती टिप्पणी ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy