Book Title: Suktiratnakosa
Author(s): Lakshman, Nilanjana Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 31
________________ लक्ष्मणकृतः 147 शिरसा बिभृता नित्यं स्नेहेन परिपालिताः । केशा अपि विरज्यन्ते के ते न यान्ति विक्रियाम् ॥६ 148 स्पृष्ट्वा मृतमाप्लुत्य सवासाः शुद्धिमाप्नुयात् । तेनैवोपचिनोति स्वं योऽस्य शुद्धिः कथं पुनः ।।७ 149 किमने न न पर्याप्तं मांसस्य परिवर्जनम् ।। यत्या चित्तं (1) तृणेनापि स्वमङ्गं परिदूयते ॥८ 150 कृमयो भस्म विष्ठा वा निष्ठा यस्येयमीदृशी । स कायः परपोडाभिर्धार्यतामिति को नयः ॥९ 151 नित्यमाचरतः शौचं कुर्वतः पितृतर्पणम् । यस्य नोद्विजते चेतः शास्त्रं तस्य करोति किम् ॥१० 152 यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।। तदा गन्तासि निर्वेदं श्रोतव्यस्याश्रुतस्य च ॥११ [भगवद्गीता, २,५२] 153 राजानमपि सेवन्ते विषयानपि भुजते । रमन्तेऽपि सह स्त्रीभिरहो साहसिकाः नराः ॥१२ 154 अर्थप्रियतयात्मानमप्रियाय ददाति या । तामात्मन्यपि नि:स्नेहां को नु रक्तेति मन्यते ॥१३ 155 चतुरः सृनता पूर्वमुपायांस्तेन वेधसा । न सृष्टः पञ्चमः कोऽपि गृह्यन्ते येन योषितः ॥१४ 156 'न मानेन न दानेन नार्जवेन न सेवया । न शस्त्रेण न शास्त्रेण सर्वथा किमपि स्त्रियः ११५ 157 अहो लुब्धक लुब्धस्त्वं के पृच्छसि मुहुर्मुहुः । या पश्यति न सा ब्रूते या ब्रूते सा न पश्यति ॥१६ 158 सन्निधौ निधयस्तस्य कामगव्यनुगामिनी । अमराः किंकरायन्ते संतोषो यस्य भूषणम् ॥१७. 159 तृणं ब्रह्मविदः स्वर्ग तृणं शूरस्य जीवितम् । विरतस्य तृणं नारी निरीहस्य तृणं नृपः ।।१.८ 148. 'स्नानानं (स्नानेन)' इति प. प्रतो टिप्पणी । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90