________________
लक्ष्मणकृतः
147 शिरसा बिभृता नित्यं स्नेहेन परिपालिताः ।
केशा अपि विरज्यन्ते के ते न यान्ति विक्रियाम् ॥६ 148 स्पृष्ट्वा मृतमाप्लुत्य सवासाः शुद्धिमाप्नुयात् ।
तेनैवोपचिनोति स्वं योऽस्य शुद्धिः कथं पुनः ।।७ 149 किमने न न पर्याप्तं मांसस्य परिवर्जनम् ।।
यत्या चित्तं (1) तृणेनापि स्वमङ्गं परिदूयते ॥८ 150 कृमयो भस्म विष्ठा वा निष्ठा यस्येयमीदृशी ।
स कायः परपोडाभिर्धार्यतामिति को नयः ॥९ 151 नित्यमाचरतः शौचं कुर्वतः पितृतर्पणम् ।
यस्य नोद्विजते चेतः शास्त्रं तस्य करोति किम् ॥१० 152 यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।। तदा गन्तासि निर्वेदं श्रोतव्यस्याश्रुतस्य च ॥११
[भगवद्गीता, २,५२] 153 राजानमपि सेवन्ते विषयानपि भुजते ।
रमन्तेऽपि सह स्त्रीभिरहो साहसिकाः नराः ॥१२ 154 अर्थप्रियतयात्मानमप्रियाय ददाति या ।
तामात्मन्यपि नि:स्नेहां को नु रक्तेति मन्यते ॥१३ 155 चतुरः सृनता पूर्वमुपायांस्तेन वेधसा ।
न सृष्टः पञ्चमः कोऽपि गृह्यन्ते येन योषितः ॥१४ 156 'न मानेन न दानेन नार्जवेन न सेवया ।
न शस्त्रेण न शास्त्रेण सर्वथा किमपि स्त्रियः ११५ 157 अहो लुब्धक लुब्धस्त्वं के पृच्छसि मुहुर्मुहुः ।
या पश्यति न सा ब्रूते या ब्रूते सा न पश्यति ॥१६ 158 सन्निधौ निधयस्तस्य कामगव्यनुगामिनी ।
अमराः किंकरायन्ते संतोषो यस्य भूषणम् ॥१७. 159 तृणं ब्रह्मविदः स्वर्ग तृणं शूरस्य जीवितम् ।
विरतस्य तृणं नारी निरीहस्य तृणं नृपः ।।१.८ 148. 'स्नानानं (स्नानेन)' इति प. प्रतो टिप्पणी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org