SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सूक्तिरलकोषः 160 सत्यमेव प्रयागोऽयं मोक्षद्वारमुदीर्यते । देव्या यत्रामितो गङ्गायमुने वहतः श्रियम् ॥१९ 161 प्रयागः सर्वतीर्थेषु तीर्थमुच्चैस्तरामयम् । संसारस्य परं पारमिहस्थैरवलोक्यते ॥२० 162 श्यामो नाम वटः सोऽयमेतस्याभुतकर्मणः ।। छायामप्यधिवास्तव्यैः परं ज्योतिनिषेव्यते ॥२१ 163 दुर्वाकुशाङ्कुराहाराः श्लाघ्यास्तात बने मृगाः । विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि ये ॥२२ 164 दृषद्भिः सागरो बद्धो मनुष्यैरिन्द्रजिग्जितः । वानरैवेष्टिता लक्का जीवद्भिः किं न दृश्यते । २३ 165 षष्ठं किमिति न प्रोक्तं महापातकमुत्तमम् । यदेतदीश्वरद्वारि दुराशारिरिटिल्लितम् ॥२४ 166 सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः । किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥२५ 167 उच्छ्वासावधयः प्राणाः स उच्छ्वासः समीरणः । समीरणाचलं नास्ति यजीवति तदद्भुतम् ॥२६ 168 सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।। संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥२७ 169 आसन्नतरतामेति मृत्युर्जन्तोदिने दिने । आघातं नीयमानस्य वध्यस्येव पदे पदे ॥२८ 170 सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीर कस्यापि कृते मूढाः पापानि कुर्वते ॥२९ [नागानन्द, १,७] 171 कोडं करोति प्रथमं यदा जातमनित्यता । धात्री व जननी पश्चात्तदा शोकस्य कः क्रमः ॥३० [नागानन्द, ४,८] 163- 164 खपतो नोपलभ्यते । 165 प. किमिते न प्रोक्तं । 167 प. संयोगा ता विप्रयोगान्ता । 169. 'वष्यस्थानं' इति प प्रती टिप्पणी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy