________________
४
लक्ष्मणकृतः
31 स्तोतुमेककविं न श्रीवाल्मीकिमृषयो विदुः।
द्वितीयो यस्य नास्त्येव स कथं प्रथमः कविः ।। 32 स एव पदविन्यासस्ता एवाक्षरपङ्क्तयः ।
वक्त्रे वक्त्रे मनुष्याणां क्वापि क्वापि विदग्धता ॥५ सुभाषितरसास्वादबद्धरोमाञ्चकन्चुकाः ।
विनापि कामिनीसङ्ग कवयः सुखमासते ॥६ 34 लचिताः कवयः स्थाने पदन्यासमुरारिणा ।
पुराप्येष त्रिपद्यापि त्रिलोकोमप्यऽलइयत् ॥७ 35 जीयाद्यसुधाधुन्याः सुबन्धुप्रभवाचलः ।
यद्भङ्गरलेषमासाद्य भङ्गः कविभिराश्रितः ।।८ 36 माहतप्रतिभाः केचित् केचिदाहतनिष्प्रभाः ।
घटदीपनिभाः केचित् केचित् ग्रन्थानुसारिणः ॥९ 37 कवयः कालिदासाचाः कवयो वयमप्यमी ।
मेरौ च परमाणौ च पदार्थत्वव्यवस्थितिः ॥ १० 38 कवीनामगलइपों नूनं वासवदत्तया ।
शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ।।११ हर्षचरित,१.११] 39 निश्वासोऽपि न निर्याति वाणे हृदयवर्तिनि ।
किं पुनर्विकटाटोपपदबन्धा सरस्वती ॥ १२ 40 सन्ति श्वान इवाङ्सख्या जातिभाजो गृहे गृहे ।।
उत्पादका न बहवः कवयः सरभा इव ।।१३ हर्षचरित, १.५] . 41 उच्छवासान्तेऽप्यऽखिन्नास्ते येषां वक्त्रे सरस्वती ।
कथमाख्यायिकाकारा न ते वन्द्याः कवोश्वराः ॥१४ [हर्षचरित,१.१०]
अथ काव्यम् । 42 लक्ष्मीः सुवर्णरूपापि पाणिपादेऽवलम्बते ।
भूषयत्यन्तरात्मानं वर्णरूपापि भारती ॥१ 32. ख. 'विदग्धताः'। 35. प. 'सुबन्धुः प्रभवाचल:'। 33. 'शक्त्या कर्णस्य लग्ना यथा' इति प.प्रतौ टिप्पणी। 40. 'चुल्ली' इति प.प्रतौ टिप्पणी । 41 'हर्षाख्यायिकादि' इति प.प्रतौ टिप्पणी । 42 ख.प्रतौ विलम्बते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org