SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः 43 अपूर्वः सूक्तिसल्लयाः कोऽपि काव्यफले रसः । चर्वणे सर्वसामान्ये स्वादुविद्विरलो जनः ॥२ 44 अपूर्वः सूक्तिकोशोऽयं दृश्यते तव भारति । , अव्यये व्ययमायाति व्यये याति च विस्तरम् ।।३ 45 धरित्र्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूः पाषाणखण्डेषु रत्नसंज्ञा नियोजिता ॥४ 46 ते धन्यास्ते महात्मानः तेषां लोके स्थिरं यशः। यैर्निबद्धानि काव्यानि ये च काव्येषु कार्तिताः ॥५ 47 बोद्धारो मत्सरग्रस्ताः प्रभवः स्मय दूषिताः । मचोधोपहताश्चान्ये जोर्णमङ्गे सुभाषितम् ॥६ [भतृहरि, सु.सं, ४] 48 किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः । परस्य हृदये लग्नं न घुर्णयति यच्छिरः ॥ ७ [नलचम्पू, १,५] 49 काव्यं तदपि कि वाच्यमऽवाञ्चि न करोति यत् । श्रुतमात्रममित्राणां वक्त्राणि च शिरांसि च ॥८ अथ सुजनः। 50 अहो किमपि चित्राणि चरित्राणि महात्मनाम् । लक्ष्मी तृणाय मन्यन्ते तद्भरेण . नमन्ति च ॥१ 51 पतति व्यसने देवादारणे दारुणात्मनि । संवर्मयति वज्रेण धैर्य हि महतां मनः । २ [अनघ राघव, ५.१५] 52 मरणावधयः स्नेहा: कोपास्तत्क्षणभङ्गुराः । परित्यागाश्च निःसङ्गाः संभवन्ति महात्मनाम् ॥३ 43 ख• स्वादुशो। 45 ख० यैर्नबद्धानि। 47 'धनमदेनाऽ हंजु(यु?)' इति प.प्रतो टिप्पणी। 'दारिद्याक्रान्ता' इति भपि टिप्पणी प.प्रतौ । ख. प्रभवस्मयदूषिताः । 48 ख• तच्छिरः । 49 प. 'वाच्यमवाचि' । 50 ख. ३] । 'संनाहेन' इति प.प्रतौ टिप्पणी ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy