Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
सुभाषितसंग्रहसमुच्चय द्विजाय किल कोऽप्यदान्मुदितचक्रवर्ती क्षितौ समस्त गृहभोजनं प्रतिकुटुम्बकोटीः क्रमात् । द्वितीयपरिवर्तनं पुनरसावपि प्राप्नुया- .
अवैव भववर्तिनां भवति मानुषत्वं पुनः ॥१०॥ ११. हृदयविचिन्तितपातिभिरपि पाशैः कश्चनापि रममाणः ।
द्यूते जीयेतापि हि न भवति मानुष्यमिह भूयः ॥११॥ समस्तजगतीगतं सकलधान्यजातं जनाः समेततिलतण्डुलोपमविमिश्रभावस्थितम् । पृथक् पृथगपि क्षमा गतसहायवृद्धाङ्गना
विधातुमिह देहिनो न पुनरेति मानुष्यकम् ॥१२॥ १३. अष्टसहस्त्रस्तम्भैरष्टसहस्राश्रिभिः सभा तस्याः ।
एकैकाश्रिर्जेया सहस्रमष्टाधिकं वाराः ॥१३॥ इत्येवं सर्वसभां जित्वा राज्यं पणो ग्रहीतव्यः । एकामपि चेद्वारां हारयति पुनर्जयेन्मूलात् ॥१४॥ अपि सम्भवेदिदं खलु विधिनाऽनेनापि कोऽपि तद्राज्यम् । गृह्णीयान्न तु जीवो लभेत मानुष्यमिह भूयः ॥१५॥ महार्णवजलान्तरस्फुटितयानपात्रच्युते गतोऽम्बुनि पुनश्चिरादपि मणिव्रजो लभ्यते । भवेदिति न चाऽङ्गिनां भवसमुद्रमध्येऽभितो
मुहुर्विपरिवर्तिनां भवति मानुषत्वं पुनः ॥१६॥ १७. स्वप्ने विधुं मुखसितं शुभदं विलोक्य
कश्चित्कथञ्चन नरस्तदवेक्षणाय । भूयः स्वपित्यपि भवेद् बत तस्य लाभो
मानुष्यकस्य पुनरेव न दुर्लभस्य ॥१७॥ १८. सव्यापसव्यं भ्रमतोऽतिवेगा
च्चक्राष्टकस्याऽरविचालमाप्य । अप्यस्त्रविद्विध्यति कोऽपि राधां न मानुषत्वं पुनरेति जन्तुः ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138