Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
सुभाषितरलकोश
अम्भ्रस्तम्बविडम्बि यौवनमिति प्रेम्णाऽवगूढाः स्त्रियो यैरेवात्र विमुच्यते भवरसात्तैरैव बद्धो जनः ॥१०५॥ वदति हसति भुङ्क्ते याति गृह्णाति शेतेवहति पठति दत्ते याचते माद्यतीष्टे । प्रणमति नरिनर्ति प्राणिति क्रोशतीत्थं -
बत विषयपिशाचग्रस्तदेहो मनुष्यः ॥१०६॥ १७०. उच्छ्वासावधयः प्राणाः स चोच्छ्वासः समीरणः ।
समीरणाच्चलं नान्यत्क्षणमप्यायुरद्भुतम् ॥१०७॥ १७१. श्लाघ्यं यत्तत्कृपणमनसां सप्तलोकाधिपत्यं
या मृग्यन्ते तरलमतिभिः सिद्धयश्चाणिमाद्याः । एतत्सर्वं मदनदहन ! त्वत्पदप्राप्तिभाजां
तत्त्वज्ञानामृतरसजुषां योगिनामन्तरायः ॥१०८॥ १७२. यल्लीलाकमलाहतौ प्रमुदितं यन्मन्मथस्यास्पदं
यत्कान्तप्रणयापराधकलहे पर्याप्तकौतुहलम् । यत्प्रेमार्द्रवधूविलासतुलितभ्रूलास्यबद्धस्पृहं तच्चेतः स्मरवैरिभग्नसदनप्रान्तस्थिति वाञ्छति ॥१०९॥
इति शान्तः ॥ अथ जातिः १७३. पक्षावुत्क्षिप्य किञ्चिन्मसृणमुकुलितानम्रमूर्धग्रपिच्छ:
कूजत्कण्ठार्द्धरुद्धस्वरमथ पुलकोड्डामरक्रोडदेशः । पश्चादग्रे च वल्गन्मनसिजदहनोद्रेकपर्याकुलाङ्ग
स्तिर्यग् तिर्यग् प्रसर्पत्यनुनयचटुलो नीलकण्ठः स्वकान्ताम् ॥११०॥ १७४. आरोहत्यवरोहति क्षणमनुक्षामक्गत्कण्ठिका
चूडाचञ्चलचञ्चकोटिघटनान्यञ्चन्मुखी पक्षिणीम् । गुञ्जन्मञ्जु रिंसुरेव चटको निष्यन्दपादद्वय
न्यासाविष्कृतमन्मथः श्लथदलत्पक्षावलीसंहतिः ॥१११॥ १७५. विलासमसृणोल्लसन्मुसललोलदो:कन्दली
परस्परपरिस्खलद्वलयनिस्वनोद्दन्तुराः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138