Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 109
________________ ૧૦૨ ५७. ५८. ५९. ६०. ६१. ६२. ६३. ६४. ६५. ६६. ६७. ६८. ६४. देवे द्विजे तथा शास्त्रे दैवज्ञे भैषजे गुरौ । यादृशी या (जा) यते भक्तिः सिद्धिर्भवति तादृशी ॥५८॥ सर्वत्र मुखरचपलाः प्रभवन्ति [हि] साधु सम्मत्ता ( ता ) गुणिनः । तिष्ठन्ति तोयराशेरुपरि तरङ्गास्तले मणयः ॥५९॥ सुभाषितसंग्रहसमुच्चय गलगजिं विनाप्युच्चैर्लभन्ते गुणिनः फलम् । न जल्पति मणिः किञ्चित् विक्रयं याति कोटिभिः ॥६०॥ सुकविश्रमानभिज्ञे श्रोतरि वचनानि विफला (लतां ) यान्ति । भर्त्तरि मुग्धे प्रौढप्रमदारतविलसितानीव ॥ ६१ ॥ श्रुतरत्नमेव धार्यं यदि भवति विशुद्धवाग्गुणग्रथितम् । विकिरति यशांसि भुवने निधनेऽप्यनुयाति शाश्वतिकम् ॥६२॥ किं कुर्मः किमुपालम्भे यत्रेदमसमञ्जसम् । काकिण्यपि न सिंहस्य मूल्यं कोटिश्च दन्तिनः ॥६३॥ उद्युक्तस्याप्रमत्तस्य ह्यनागतविधायिनः । दिशो निरीक्षमाणस्य जाग्रतो नास्ति नुर्भयम् ॥६४॥ जाई जयंमि गरुया जाईए तह य उत्तमा लच्छी । [ लच्छी ] ए गुणा गुरुया तिण्णिवि लहुया विवेगस्स ॥ ६५ ॥ काश (स) श्वासातिसारो ज्वरपिटकपिटीकुष्ठकोष्ठप्रमो (मे) हान् मूत्रग्राहोदरार्शः श्वयथुगलशिरः कर्णनासाक्षिरोगम् । ये चान्ये वातपित्तक्षतजकफकृता व्याधयः सन्ति जन्तोस्तानप्यभ्यासयोगादपनयति पयः पीतमन्ते निशायाः ॥ ६६ ॥ या( ये ) वर्धिताः करिकपोलमदेन भृङ्गाः प्रोत्फुल्लपङ्कजरजः सुरभीकृताङ्गाः । ते साम्प्रतं प्रतिदिनं गमयन्ति कालं निम्बेषु चाऽर्ककुसुमेषु च दैवयोगात् ॥६७॥ अभिमानं धनं येषां चिरं जीवन्तु ते नराः । अभिमानेन दीनानां किं धनेन किमायुषा ? ॥६८॥ धृतिभावनया दुःखं सत्त्वभावनया [रुषम् ] | [ तपोभावनया ? ] कर्म नाशं याति न संशयः ॥६९॥ जाति: जगति गुर्वी जात्या तथा च उत्तमा लक्ष्मीः । लक्ष्म्या गुणाः गुरुकाः त्रयोऽपि लघुका विवेकस्य ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138