Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 130
________________ सूक्तावली (लघु) ११. १२. १३. १४. १५. १६. १७. १८. १९. २०. अस्माकं बत मण्डले प्रथमतः पत्या करः पात्यते काञ्ची- कुन्तलदेश - मध्यविषयान् हित्वा समिद्धश्रियः । ज्ञात्वेतीव पयोधरौ मृगदृशो जातो विकृष्टाननौ नो नीचोऽपि पराभवं विषहते किन्तून्नतौ तादृशौ ॥११॥ कुतस्तस्यास्ति राज्यश्रीः कुतः सन्ति मृगेक्षणाः । यस्य शूरं विनीतं च मित्रं नास्ति विनिश्चितम् ॥१२॥ यदिन्दोर्जातेयं कथमपि लघुर्लक्ष्मकणिका विधातुर्दोषोऽयं न तु गणनिधेस्तस्य किमपि । स किं पुत्रो नात्रेर्न किमु [ ? ] हचूडामणिरसौ न किं हन्ति ध्वान्तं जगदुपरि किं वा न वसति ॥ १३ ॥ यदिन्दोरन्वेति प्रलयमुदयं वा निधिरपामुपाधिस्तत्राऽयं भवति जनिकर्तुः प्रकृतितः । अयं कः सम्बन्धो यदनुहरते तस्य कुमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसन्धिप्रणयिनः ॥ १४ ॥ यदि क्रियते कर्म तत्परत्रोपतिष्ठति । मूलसिक्तेषु वृक्षेषु फलं शाखासु जायते ॥ १५॥ क्षिपत्वग्नौ दत्तं जलमथ पयोदे पतिरपा - पेक्षन्तेऽर्थित्वं न तु गुणमुदारप्रकृतयः । इदं चिन्त्यं किन्तु क्व च विनिहितं भस्म भवति क्व च न्यस्तं स्वस्ति प्रदिशति समस्तस्य जगतः ॥ १६ ॥ वचनमात्रेण माधुर्यं मयूर ! तव जृम्भते । उरगग्रसननिस्त्रिंशकर्मभिर्दारुणो भवान् ॥१७॥ महता पुण्यपण्येन क्रीतेयं कापि नौस्त्वया । पारं दुःखोदधेर्गन्तुं त्वर यावन्न भिद्यते ॥ १८ ॥ अत्यार्यमतिदातारमतिशूरमतिव्रतम् । प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥१९॥ नाऽऽस्ते मालिन्यभीतेः सकलगुणगणः संनिधानेऽपि येषां येषां सन्तोषपोषः सततमपि सतां दूषणोद्घोषणेन । Jain Education International For Private & Personal Use Only ૧૨૩ www.jainelibrary.org

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138