Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 116
________________ सूक्तसंग्रह १४९. १५०. विधानविहितं कर्म यद्धेनै (?) व निर्मितम् । न शक्यमन्यथाकर्तुं संहतैस्त्रिदशैरपि ॥ १४९ ॥ कर्मायत्तं फलं पुंसां बुद्धिस्तदनुसारिणी । तथापि सुधियः कार्यं सुविचार्यैव कुर्वते ॥ १५० ॥ १५१. वर्णं सितं झटित(ति) वीक्ष्य शिरोरुहाणां स्थानं परं परिभवस्य तदेव पुंसाम् । आरोपितास्थिशकलं परिहृत्य यान्ति चाण्डालकूपमिव दूरतरं तरण्यः ( तरुण्यः ) ॥१५१॥ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । चक्षुः श्रोत्राणि जीर्यन्ति तृष्णैका निरुपद्रवा ॥१५२॥ १५३. वदनं दशनां (न) विहीनं गावो न परिस्फुटा गता शक्तिः । विगता चेन्द्रियवृत्तिः पुनरपि बाल्यं कृतं जरया ॥ १५३ ॥ १५२. १५४. यममिव गृहीतदण्डं हरिमिव सगदं शशाङ्कमिव वक्रम् । शम्भुमिव विरूपाक्षं जरा करोत्यकृतपुण्यमपि ॥ १५४॥ १५५. दानेन तिष्ठन्ति यशांसि लोके दानेन वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात् [तस्मात् ?] सुदानं सततं प्रदेयम् ॥१५५॥ १५६. दानं ख्यातिकरं सदा हितकरं संसारसौख्याकरं नृणां प्रीतिकरं गुणाकरकरं लक्ष्मीकरं किङ्करम् । स्वर्गायासकरं गतिक्षयकरं निर्वाणसम्पत्करं वर्णायुर्बलबुद्धिवर्धम (न) करं दानं प्रदेयं बुधैः ॥१५६॥ १५७. दानेन भूतानि वशीभवन्ति दानेन कीर्त्यः प्रचरन्ति लोके । भवे भवे प्रार्जति सौख्यमक्षयं तस्मात् सुदानं सततं प्रदेयम् ॥१५७॥ १५८. शिथिलकटिकन्पालं लम्बितभ्रूललाटं स्वरगतिपरिहीनं मन्दचक्षुर्घुलन्तम् । परिजनपरिभूतं यष्टिलग्नाग्रहस्तं विकसितसितकेशं पश्य वृद्धं व्रजन्तम् ॥१५८॥ १५९. वीतरागेषु यद्दत्तं यद्दत्तं ब्रह्मचारिषु । सागरस्य भवेत्संख्या तस्य संख्या न विद्यते ॥ १५९ ॥ ૧૦૯ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138