Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 118
________________ ૧૧૧ सूक्तसंग्रह १७३. राज्यं च सम्पदो भोगाः कुले जन्म सुरूपता । पाण्डित्यमायुरारोग्यं धर्मस्यैतत्फलं विदुः ॥१७३।। १७४. रणे वने शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥१७४॥ १७५. दारिद्यनाशनं दानं शीलं दुर्गतिनाशनम् ।। अज्ञाननाशिनी प्रज्ञा भावना भवनाशिनी ॥१७५॥ १७६. क्रमेण शैलः सलिलेन भिद्यते क्रमेण वाल्मीकशिखाऽभिवर्धते । क्रमेण विद्या विनयेन गृह्यते क्रमेण मोक्षस्तपसाऽधिगम्यते ॥१७६॥ १७७. वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह । न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥१७७॥ १७८. त्यक्त्वा जीर्णमयं कायं लभते च नवं वपुः । संसारे कृतपुण्यस्य मृत्युरेव रसायनम् ॥१७८॥ १७९. नो दृष्टं भुवने शशाङ्कसदृशं शुद्ध जिनस्यालयं नो शास्त्रं विदितं प्रबोधजनकं भव्याम्बुजानां प्रियम् । नो दत्तं मुनिपुङ्गवाय सततं दानं मया भक्तितः कालोऽयं खलु याति पापमनसो नो साधितं किञ्चन ॥१७९॥ १८०. धर्मे मतिर्भवतु किं बहुना श्रुतेन जीवे दया भवतु किं बहुभिः प्रदानैः । शान्तं मनो भवतु किं कुजनैरतुष्टैरारोग्यमस्तु विभवेन चलेन किं वा ? ॥१८०॥ १८१. स धर्मो नास्ति नाधर्मस्तत्सुखं यत्र नाऽसुखम् । तज्ज्ञानं यत्र नाऽज्ञानं सा गतिर्यत्र नाऽऽगतिः ॥१८१॥ १८२. धर्मस्य कानि लिङ्गानि दमः क्षान्तिरहिंस्रता । तपो दानं च शीलं च योगो वैराग्यमेव च ॥१८२॥ १८३. क्षीयन्ते सर्वदानानि यज्ञ-होम-बलिक्रियाः । न क्षीयते महादानमभयं सर्वदेहिनाम् ॥१८३॥ १८४. मानो धनं करौ शस्त्रं सहायो यस्य पौरुषम् । चेतो मन्त्री गुणो वर्म स धात्राऽपि न जीयते ॥१८४॥ १८५. [वि.]नमत्युन्नतिहेतोर्जीवनहेतोर्विमुञ्चति प्राणान् । दुःखीयति सुखहेतोः को मूढः सेवकादन्यः ? ॥१८५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138